SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान-६३ छत्राण्युत्सृजतामनातपपटुः प्राप्तोदयः सर्वदा, सर्वत्राऽभ्युदयी विपक्षवनितादृग्वारिजोद्वेगकृत् ।। कुर्खन् कोविदकैरवाणि कलितोल्लासानि भासां भरैर्जीयात् केलिगृहं रुचामभिनवो युष्मत्प्रतापो रविः ॥२८॥ धाम्नांधामभवत्प्रतापतरणेः सङ्गादभूद् गर्भिणी, प्राची शावमसूत वासरमणिं तत्तेजसामास्पदम् । उन्निद्रं तदयं तनोति कृतिनां दृग्मित्रमब्जाकरं, किं तेनाऽऽत्मसमुद्भवेन नहि यो धत्ते धुरं पैतृकीम् ॥२९॥ विद्युद्वाडववह्निदावदहनप्रद्योतनेभ्योऽधिकज्योतिर्जालयुतामवैमि भगवन्! युष्मत्प्रतापावलीम् । स्पृष्टा एव जनं दहन्ति यदमी साऽनु(तु?) ज्वरं निर्भरं, गर्भागारजुषामपि प्रथयति प्रोन्मादिनां. वादिनाम् ॥३०॥ विश्वान्तः प्रसरन् कुवादिविपिनं “पुप्लोष यः सर्वतश्चक्रे श्याममुखं च वैरिनिवहं योऽद्योतयत् सन्मनः । यः स्नेहान्निधनं निनाय कुदृशां स्नेहाभिषिक्तः सतां, शक्तास्तात! तव प्रतापशिखिनः शक्तिं न वक्तुं वयम् ॥३१॥ अस्माकं वचसां चयः किमु सहो जायेत वक्तुं स्थिरस्थाम्नांस्थानभवत्प्रतापपटलं दावनलैः सन्निभम् । कुर्युः काष्ठतृणादि भस्म यदमी तत् प्रस्तराऽय:पविप्राते(न्ते)भ्यः कठिनं करोति निकरं दुर्खादिनां भस्मसात् ॥३२॥ सावण्यं कथमब्जिनीप्रणयिना तात! प्रतापस्य ते, यत्तापः प्रधनं प्रयाति परितच्छत्रादिकच्छायया । तत्तापे रजनीकरः खरकरः कृप्न(क्लृप्त?)ज्वराश्चाऽमराः२ त्रैखण्डं सलिलं भुजङ्गगरलं सौदामिनी यामिनी ॥३३॥ तेजोभिर्न तिरोदधेऽपि बहुलैर्यः पद्मिनीप्रेयसः, शान्ति यः समियाय नैव कुदृशां निःश्वासवातोत्करैः । १. विपिनं यो निर्ममे भस्मसात् चक्रे - वि. । २. रजनीकरो विषधरो वढ्युत्कराश्चाऽमराः - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy