SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ तात! त्वत्प्रबलप्रतापमृगराट्संरुद्धमध्यादसौ, सारङ्गः सदनाच्च गौश्च वदनान्नष्टाविमौ वादिनाम् । चन्द्रे चन्द्रधरे च 'संश्रितिमितौ नो चेत् कथं दृश्यते, एणोऽयं द्विजराजमण्डलगतो गेहे च गौः शाम्भवे ॥२२॥ देव! त्वद्गहनप्रतापदहनज्वालावलिव्याकुलो, गङ्गां मूनि दधौ हरः पतिमपां शय्यां व्यधात् केशवः । चन्द्रोऽस्थात् तटिनीतटे दिनमणिझम्पामदाद् वारिधौ, भूयः शैत्यगृहं गृहं च कृतवानम्भोजमम्भोजभूः ॥२३॥ पाताले मणयः फणेषु फणिनां मार्तण्डलक्ष्मीमुषः, क्षोणौ यन्मणिविद्रुमामरगिरिस्वर्णप्रदीपादि च । व्योमान्तर्ग्रहधोरणीकमलिनीप्राणेशशम्पादि यत्, तद् व्याप्तत्रिजगत्स्थितेविलसितं तात! प्रतापस्य ते ॥२४॥ आत्तैषा भवता द्विषज्जयकृते विद्या प्रतापाय ते, शश्वत् तीव्रतरायते न तनुते स्वामिन्नुपालम्भनम् । तैलेनेव जलेऽत्र यत् प्रसरता नीतास्त्वया पञ्चतां, सर्वेऽपि द्विषतां गणास्तदनृणा भर्तुर्भवेयं कथम् ॥२५॥ शम्बक्षोदविनोददक्षवदनो युष्मत्प्रतापो घनो, वादिव्रातहदेककुम्भनिकरानस्फोटयद् यत् स्फुटम् । तत् तत्प्राणपयांसि नाशमगमंस्तत्स्थान्यदो युक्तिभा-३ "गाधारेण विना स्थितिं न लभते ह्याधेयवस्तु क्वचित्" ॥२६॥ ध्यद् युष्मत्प्रबलप्रतापदहनः प्राजीज्वलद् वादवल्लोकास्तोककुटीरकोटिमभितः सूरीन्द्र! तत् सूनृतम् । तद्दाहेन निराश्रया निरसरच्छायालिरद्याऽपि तत् सार्थस्तद् यत एव न श्रवणयोरक्ष्णोश्च वत्मैति यत् ॥२७॥ १. सङ्गतिमितौ - अं । २. आत्ता वादिपरम्पराजय० - वि. । ३. तत्स्थान्यसौ वाक् सतामाधारेण - वि. । ४. स्वामिन्! वादिकुरङ्गदारकदृशां बाष्पाम्बुभि० इति पङ्क्त्या आरभ्यैकादशः श्लोक एव वि. इत्यत्र पुनरावृत्तो भवति अस्य श्लोकस्य स्थाने । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy