SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३२ अभ्रान्तर्भ्रमतोऽत्यदभ्रमहसः सङ्गात् प्रतापस्य ते, विद्युद् गर्भमधात् तया च सुषुवे सूनुस्त्विषामीश्वरः । मित्राणां सरसीरुहां तदनिशं सौन्दर्यमत्यद्भुतं, पौत्रोऽयं तनुते त्वदाननदृशोस्तत्सुन्दरस्फारयोः ॥ १६॥ व्योमव्याप्तवसुन्धरो द्युतिधरो युष्मत्प्रतापः प्रभो!, तत्स्थानाय मरालबालगतया यातीति वक्तुं किमु ? | 'कीर्त्तिर्नैव मदीशितुस्त्रिभुवने मात्यत्र तत् सूत्रयाऽन्यद्ब्रह्माण्डमकाण्डैविस्तरमयं ब्रह्मन्नमुष्याः कृते ॥१७॥ भ्रान्त्वा भूमिमिमामनन्तमटता युष्मत्प्रतापेन योऽस्फोटीन्दोः कलशः सुधारसमयः स्वस्वामिवाग्मत्सरी । पीयूषं निपतत् तदङ्कविवराद् दध्रे तृणौघाङ्कुरैनैवं चेदमृतं प्रयच्छति कथं तच्चारिणी गोततिः ॥१८॥ जानीमः किल नाकिनायककरक्रोडाब्जिनीवल्लभं, ४ "वज्रं दीधितिराजिराजिततनोरंशं प्रतापस्य ते । नेत्थं चेत् किमखर्व्वगर्व्वशिखरैर्व्याप्तान्तरिक्षाङ्गणा, ग्रावाणः कणशो बभूवुरभितस्तेनाऽऽहता अप्यमी ॥ १९ ॥ ये विद्याभिरमराजगुरवो येऽम्भोधयो भूतिभिये चौन्नत्यगुणेन देवगिरयः प्रोन्मादिनो वादिनः । तेऽप्यस्माकमणीयसामपि पुरोऽनश्यन् गुणोऽयं न नः, किं तद् जृम्भत एष देवमहिमा युष्मत्प्रतापोद्भवः ॥२०॥ घर्मांशुर्भृशमस्तवीत् शशधरोऽनिन्दच्च वर्यौजसामास्थानीं. भवतः प्रतापहरिणा धीशं भ्रमन्तं स्वयम् । 'तत्त्रस्तैस्तुरगैर्हुतं प्रियतमां प्रापैकको वारुणीं, नाशाद् गो: पतिते हरे च पतनात् खण्डीबभूवापरः ॥ २१ ॥ वि. । १. कीर्तिर्माति न मत्पतेस्त्रिभुवने चैकत्र तत्सूत्रया० २. ० विस्तरमयि - वि. । ३. ०विवरेणाऽधारि घासाङ्कुरै० - वि. । ४. ० क्रोडाब्जतीव्रच्छविं (वि) - अं. । ५. दम्भोलिं द्युतिराजि० वि. । Jain Education International अनुसन्धान- ६३ ६. शम्बाहता वि. । ७. त्रासादस्य हयैर्दुतद्रुतगतैः प्रापैकको - वि. । - For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy