SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ ३१ किं तेन ज्वलनेन वाडवशमीगर्भेण किं भानुना, किं किं वा तडिता तया यतिपते! युष्मत्प्रतापः सदृक् ॥९॥ स्वैरं दुःसहरश्मिजालजटिलो युष्मत्प्रतापो भ्रमन्, भेजे पूर्वदिगङ्गनामियमभूद् गुर्वी च तत्सङ्गतः । सूतं पश्य तयोदयावनिभृतः शृङ्गे त्विषामीशितुबिम्बं बालमिमं पितुः समुचितैर्भासां भरैर्भासुरम् ॥१०॥ अत्युष्णैरिह वादिवृन्दसुदृशां बाष्पाम्बुभिर्निर्भरं, . संसिक्तः स्फुरति स्म 'कूर्मविटपो युष्मत्प्रतापद्रुमः । सच्छायच्छदनानि विद्रुममणिस्वर्णानि तस्याऽभवन्, दीपास्ते कुसुमोत्कराः फलमिदं तिग्मद्युतेर्मण्डलम् ॥११॥ कीर्ति कैरविणीं स्मयं कुवलयं भूपीठपद्माकरान्, जग्ध्वा वादवतां जगाम गगनं युष्मत्प्रतापो वृषः । तेनोत्सृष्टमिदं निजाशनगुणं स्व:कूलिनीकूलगं, पश्यन्तु द्विजराजमण्डलमिषाज्ज्योत्स्नामयं गोमयम् ॥१२॥ वादिव्रातमदीदहन्मुनिमणे! युष्मत्प्रतापानलस्तन्नारीनयनाम्बुसिन्धुभिरगात् तद्भस्म चाऽम्भोनिधिम् । तेन श्यामवपुः पुराणपुरुषस्तत्र प्रसुप्तोऽभवनोचेच्छ्यामलता कुतो भगवतस्तस्याऽपि विश्वेशितुः ॥१३॥ औग्नेिरशनेः सरोजसुहृदः सारैः सरोजासनश्चक्रे देव! भवत्प्रतापमतुलप्रद्योतपुञ्जास्पदम् । ३अस्त्येतत्समशोषतादहनताप्रोद्दीप्रतालक्षणा, "शक्तिव्यक्तिरनन्यजन्यरचना नाऽन्यत्र यत् तं विना ॥१४॥ स्थित्वा चेत् कनकाचले वितनुते स्नानं दवाग्न्यम्बुभिश्चेच्चच्चिरमङ्गमौर्व्वदहनश्रीखण्डखण्डद्रवैः । यद्युत्सङ्गनिषङ्गिनी च कुरुते सौदामिनी कामिनी, तत् साम्यं समुपैति दीधितिपतिः स्वामिन्! प्रतापस्य ते ॥१५॥ १. कर्मविटपो - अं.। ३. तेनैभ्योऽधिकशोषता० - वि. । २. तत् सांव मृगाङ्क - पु. पाठः(?)। ४. ०लक्षणां विद्मः शक्तिमनन्यजन्यरचनां - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy