________________
जान्युआरी - २०१४
श्रीपार्श्वस्तवमेवं, नवग्रहस्तवनगर्भमध्येतुः । .. श्रीसोमसुन्दरमते-रप्यशुभाः स्युर्ग्रहाः शुभदाः ॥१०॥ इति श्रीवामेयस्तवनं नवग्रहस्तुतिगर्भ
महोपाध्याय० श्रीर० वि० ॥ . अव० - [अध्येतुः-] पाठकस्य, इह तृन् । पूर्णेन्दुवत् सुन्दरानिर्मला मतिर्यस्य ॥१०॥
श्रीपार्श्वस्तवावचूरिः ।।छ।
(४) श्रीतीर्थद्वयस्तवनम् (सावचूरि) श्रीअर्बुदाद्रिमुकुट-श्रीजीरापल्लितीर्थसुप्रथितिम् ।
स्तौमि श्रीमत्पाश्र्वं, जिनर्षभं श्रीशिवाङ्गभुवम् ॥१॥
अवचूरिः - ऋषभपक्षे - अर्बुदाद्रिमुकुटश्चाऽसौ श्रीजीरापल्लितीर्थेनाऽऽसन्नत्वात् सुप्रसिद्धिश्च । श्री[मत्] पार्वं समीपं यस्य । श्रीशिवानामङ्गमभ्युपायो धर्मस्तदुत्पत्तिंपदम् । नेमिपक्षेऽप्येवं, परं जिनर्षभम् जिनप्रवरम् । पार्श्वपक्षे - अर्बुदाद्रिर्मुकुटो यस्येदृशा जीरापल्लितीर्थेन सुप्रसिद्धम् ॥१॥
तव सद्वर्ण्यसुवर्ण-श्रीघनरोचिष्णुरोचिरङ्गलता । कल्पलतातोऽप्यधिकं, दत्ते दृष्टाऽप्यभीष्टानि ॥२॥
अ० - सुवर्णश्रीवद् घनं- सान्द्रं रोचिष्णुरोचिर्यस्याः । नेमि-पार्श्वपक्षे - शोभनवर्णश्रीघनोमेयस्तद्वद्रोचिष्णु० ॥२॥
जय नाभिभूत! निःसम-सुसंविदां श्रीसमुद्रविजयभव! । वामाङ्गज! जयहेतो!, भवाऽब्धिसेतो! दुरितकेतो! ॥३॥
अ० - निःसमससंविदां श्रीयुक्तसमुद्रविजयस्य भवो- जन्म यस्मात् । वामः- प्रतिकूलः अङ्गज:- स्मरस्तज्जयहेतो! । नेमिपक्षे - निःसमसुसंविदां नाभिभूताऽऽधारभूत! । पार्श्वपक्षे - हे वामाङ्गज! हे जयहेतो! ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org