________________
अनुसन्धान-६३
अ० - गुरु:- गरिमास्पदं, पक्षे - बृहस्पतिः । अतिचारःचारित्रमालिन्यं, शीघ्रगतिश्च ॥५॥
गुरुपदलाभादुच्चः, श्रीपार्श्वः श्रेयसेऽस्तु सत्काव्यः ।
दोषाकरद्वेषी न, जातु यात्यस्तमिति तु नवम् ॥६॥
अ० – गुरुपदं सिद्धिर्मीनराशिश्च, मीनराशौ हि शुक्र उच्चः । सद्भिः स्तुत्यः, पक्षे - संश्चासौ शुक्रश्च । दोषाणामाकरं विद्वेष्टीति शीलः, पक्षे - दोषाकरश्चन्द्रो विद्वेषी यस्य । सिद्धौ शाश्वतोदयस्थितिकत्वात्, शुक्रस्तु अस्तं यात्येव ॥६॥
परसिद्धियोगमसित-स्तनुतां पार्श्वः प्रयोगतो ब्रायाः ।
धर्मं पुष्णन् धर्मा-श्रयेण न पुनः क्वचिन्नीचः ॥७॥
अ० - असितः नीलवर्णः शनिश्च । ब्राह्मी वाग् रोहिणी च, तस्याः प्रयोगतः- उपदेशादेः प्रकृष्टयोगाच्च, परसिद्धियोगं प्रकृष्टमुक्तिसम्बन्धम् अमृतसिद्धियोगं च तनुतामित्यन्वर्थः । चारित्रधर्माश्रयेण चतुर्विधं धर्ममुपदेशादिना पुष्णन् । पक्षे - धर्म भवताश्रयणेन (?) धर्मपोषी । शनिस्तु मेषे नीच: स्यात् ॥७॥
दुरितभिदे दोषाकर-तमोरिपुग्रासलालस: पार्श्वः । .. ____ कीर्त्या विधुन्तुदस्ता-न्न क्रूरः कौतुकं क्वाऽपि ॥८॥
अव० – दोषाणामाकरभूतं यत् तमोऽज्ञानं, तदेव रिपुः- शत्रुस्तस्य ग्रासे- विनाशे लालसा- श्रद्धा यस्य; पक्षे - दोषाकरश्चन्द्रस्तमोरिपुः- सूर्यः, तयोर्ग्रसनपरः। कीर्त्या विधुन्तुदश्चन्द्रस्य जेता, पक्षे - विधुन्तुदो- राहुः ॥८॥ ..
श्रीवामेयोऽनवम-स्त्रिजगति केतुः श्रियां परमहेतुः ।
जयतु स्फुरत्फणर्द्धि-नवरं नित्योदयी शुभदः ॥९॥
अव० - अनवमः- श्लाघ्यः, पक्षे - नवमो नवसंख्यापूरणः । त्रिभुवने विभूषकत्वात् केतुर्ध्वज इव, पक्षे - केतुनामा ग्रहः । पक्षे - परं केवलं श्रियामहेतुः । उभयोरपि सफणत्वात् । केतुस्तु कदाचिदुदयी, उदितोऽप्यरिष्टकृच्च ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org