SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २०१४ ( ३ ) नवग्रहस्तुतिगर्भं श्रीपार्श्वजिनस्तवनम् (सावचूरि ) (आर्यावृत्तम्) पार्श्वः श्रियेऽस्तु भास्वा - नजस्थितेरुच्चतां परां बिभ्रन् । विश्वप्रकाशकुशलः, कुतुकं तु कलावदुल्लासी (निस्तुलाश्रयः) ॥१॥ अवचूरिः भास्वान् दीप्रसूर्यश्च । [अज: ] न जायतं इत्यतः सिद्धः, पक्षे ‘अज:' मेषराशिस्तत्रस्थो हि रविरुच्चः स्यात् । निस्तुल आश्रयः सिद्धिलक्षणो यस्य, सूर्यस्तु तुल (ला) राश्याश्रयोऽपि स्यात् इति चित्रम् ॥१॥ पार्श्वः स जयति सोमः, परमोन्नतिभृद् वृषप्रयोगेण । शैवे शिरसि निवासी, चित्रं तु तमोग्रहग्रासी ॥१२॥ अ० सौम्यश्चन्द्रश्च । वृषः- पुण्यं, तत्प्रयोग- उपदेशांदिना; पक्षेवृषराश: (शे:) प्रकृष्टयोगेन । [ शैवे ] मोक्षसम्बन्धिनि, ईशसम्बधिनि । तम:अज्ञानं तदेव ग्रहो भूतादिस्तद्विनाशी, पक्षे तमोग्रहो - राहुः ॥ २॥ - श्रीपार्श्वं सद्वृत्तनवा- - चिषं नमत मङ्गलात्मानम् 1 पृथ्व्या नन्दनमद्भुत-मवक्रमर्पितबुधमुदं च ॥३॥ -- - अ० सच्छोभनं वृत्तं शीलं यस्य; पक्षे - शोभनश्चाऽसौ वृत्तोवृत्ताकारश्च । नवमर्चिः- तेजो ज्ञानरूपं यस्य, पक्षे नवसङ्ख्यकिरणम् । कल्याणमयात्मानं, पक्षे - मङ्गलः - भौमः । पृथ्व्या आनन्दनं, पक्षे सुतम्। मङ्गलस्य हि बुधो रिपुर्गीयते ॥३॥ पृथ्व्याः - वामाभूः श्यामाङ्गः, सौम्यः स्तादमृतसिद्धियोगकृते । मैत्रीप्रयोगतो वः, कुतुकं तु कलावक (दु) ल्लासी ॥४॥ अ० क्षे श्यामाङ्ग इति बुधनाम | पक्षे - सौम्यः - बुधः । मैत्रीप्रयोगेण वो मोक्षनिष्पत्तियोगाय स्तात् इति सम्बन्धः, पक्षे - मैत्र्यनुराधा, तस्याः प्रयोगतो बुधो अमृतसिद्धियोगकृत् स्यात् । पक्षे - बुधस्य हि चन्द्रो रिपुः 11811 Jain Education International १९ - जगति गुरुः श्रीपार्श्वः, शुभदृष्ट्या दोषलक्षमपि मुष्णन् । पुष्णञ् श्रियश्च जीया-न्न कुत्रचिच्चित्रमतिचारी ॥५॥ - For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy