________________
अनुसन्धान-६३
व
आम्ना(?)तिनो मानवखण्डनादौ,
दर्पण येऽन्यानव! खं डयन्ते । गिरोऽपि तैस्तेऽनवखण्डनीया,
विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥५॥ अ० - मनोरिदं मानवं शास्त्रं स्मृत्यादि, खण्डनग्रन्थ(?) । नौतीति नवः, स्तोता, न नवो अनवः, अन्येषामनवोऽन्यानवः, त्रिजगतोऽपि स्तुत्यत्वात् । ये दर्पण खं- व्योमं डयन्ते- उत्प्लवन्ते । यद्वा अवखण्डयन्तीति पाठस्ततो ये अन्यान् अवखण्डयन्ति- तिरस्कुर्वन्तीत्यर्थः । खंवं (अनवखण्डनीया)अवखण्डयितुमशक्याः ॥५॥
वितन्वते ते नवखण्डतिं ये,
स्वभक्तितोऽर्हन्नवखण्डमाशु । ते नित्यनिस्तानवखं डभन्ते,
विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥६॥ अ० – स्वार्थे तिक्प्रत्ययेन नवशब्दयोगे च नवखण्डतिस्तमवखण्डं'वखण्डे'तिवर्णत्रयहीनमेतावतः नतिमित्यर्थः । निस्तानवमतुच्छं खं- सुखं डलयोरैक्याल्लभते ॥६॥ - व्याधींस्तथाधीनवखण्डसे तत्,
. त्वमेव विश्वे नवखण्डहीनः । मनीषिणां मानवखण्डना),
विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥६॥ अ० – यत् इत्यध्याहार्यम् । मानवखण्डनार्हपदस्य 'नवखण्डे'तिवर्णचतुष्कहीनत्वे 'मानार्ह' इति शिष्यते । ततो मनीषिणां माननीय इत्यर्थसिद्धिः ॥७॥ इति श्रीनवखण्डपार्श्वस्तवावचूरिः ।
इति स्तुतः श्रीनवखण्डनामभृत्,
प्रसिद्धघोघापुरभूवि[भू]षणः । पार्श्वः प्रभुः श्रीगुरुसोमसुन्दर
स्फुरद्यशाः शाश्वतसम्पदेऽस्तु वः ॥८॥ - इति श्री महोपाध्याय श्री र० वि० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org