________________
जान्युआरी - २०१४
१७
अवचूरिः - लोकप्रसिद्ध्या पृथ्वी नवखण्डा । सम्पूर्णा संवित्केवलज्ञानं यस्य ॥१॥
ते तत्क्षणेनाऽनवखण्डमुच्चै
विघ्नानशेषानवखण्डयन्ति । ये त्वां स्तुयुर्दानवखण्डनाW!,
____ विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥२॥ अ० - अनवं- जीर्णं ततो जीर्णखण्डमवखण्डयन्तीति योगः । यथा जीर्णमनायासेवनेनेव (यासेनैव) खण्ड्यते तथा ते विघ्नान् सर्वान् खण्डयन्ति । अत्र अनवखण्डं खण्डयन्तीति कृत्वा पश्चादेवोपसर्गेण योगः । प्रथममेवोपसर्गयोगे त्वनवखण्डमित्यत्र णम्प्रत्ययस्य असम्भवः, "व्याप्याच्चेवात्" इति सूत्रे तस्यैवेति नियमात् । यद्वा अवशब्दश्चाऽऽदिपठितो भर्त्सनार्थे क्रियाविशेषणत्वेन योज्यः । भर्त्सनपूर्वं विघ्नान् खण्डयन्तीति भावः । अथवा अवतीति अचि अवस्ततो जिनसम्बोधनं - हे अव!- रक्षक! । दानवखण्डना- इन्द्राः ॥२॥ माधुर्यधुर्या नवखण्डमैत्री,
गीस्तेऽथ कार्शानवखण्डवारि ।। भात्युद्यदादीनवखण्डमाना, . - विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥३॥
अ० - यत एव माधुर्यधुर्या तत एवाऽभिनवमधुधूलिजैत्री । अथान्येव(?) कार्शानवानि कृशानुसम्बन्धीनि यानि खण्डानि ज्वाला इत्यर्थः, तत्र नीरसदृशा। आदीनवान् दोषान् खण्डमाना मथ्नन्ती, शीलार्थशानस्तेन मलयपवमान इति- वत्समासः सिद्धः, "श्रितादिभिः" इति सूत्रेण ॥३॥
नवप्रमुक्तानवखण्डलौटु
भक्त्या कृतोच्चैर्नवखण्डगद्भिः । श्रितान् भवार्तानव खण्डमुळ,
विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥४॥ अ० - आनवखण्डलशब्दस्य नवप्रमुक्तत्वेन आखण्डलेति स्यात्, कृत उच्चैः स्तवो यस्य । खं- स्वर्ग, डलयोरैक्याल्लगद्भिः स्वर्गस्थैरित्यर्थः । उाः खण्डं- पीठं श्रितान् भवार्त्तान् अवेति योगः ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org