________________
अनुसन्धान-६३
रञ्जितमिव । ५. गुणैर्गेयम् । ६. चित्ते धेयं- धारणाह, तत एवाऽहं धरेयमच्चित्ते
॥२३॥
'गिरिभुवि हरिभावे 'बाहुलीलाविभिन्ना
विरलनिबिडपीडासङ्गमे गाढखिन्नम् । "परिभवपरिहारायेव वोढारमङ्के,
हरिवरमरिहन्तं हे नरा! धत्त चित्ते ॥२४॥ अ० – १. शालिक्षेत्रासन्नायाम् । २. प्राग्भवे त्रिपृष्ठवासुदेवत्वे । ३. बाहुलीलया यद् विभिन्नं, क्लीबे क्तान्तत्वात् विदारणं, तेन निरन्तरा, निबिडा च या पीडातस्याः सम्पर्के । ४. गाढखेदाद् यः परिभवः तदपहरणार्थमिव सिंहवरमङ्के वोढारम् । शीलार्थोऽत्र तृन् । अर्थात् श्रीवर्द्धमानम् ॥२४॥
इत्थं स्तोत्रपथं कथञ्चन जिना नीता विनीतात्मना, . वृत्तैः प्राकृतसंस्कृतैः समुदितैस्तैः शौरसेन्या समैः । दधुः श्रीगुरुसोमसुन्दरमुदाऽऽस्वादं प्रसादं जवाद्, येनाऽसौ रसिकेव,केवलकला लीलायते मय्यपि ॥२५॥ [शार्दूल०] इति संस्कृत-प्राकृत-शौरसेनीरूपभाषात्रयसमं
२४ जिनस्तवनम् । म. श्रीरत्नशेख० ग० वि० । अव० - श्रिया गुरुः सोमस्तद्वत् सुन्दराऽतिविशदा या मुत्, तस्या अनुभवो यत्र प्रसादे तं तथा ॥२५॥
इति भाषा–यसम २४ जिनस्तवावचूरिः ।
(२) श्रीनवखण्ड-पार्श्वस्तवनम् (सावचूरि)
(उपजातिवृत्तम्) जय प्रभो! त्वं नवखण्डपृथ्वी
प्रख्यातकीर्ते! नवखण्डमूर्ते! । • भव्याब्जभानोऽनवखण्डसंविद्,
विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org