________________
१५
अनुसन्धान-६३
अ० – १. चन्द्रग्रसनपरः । २. बहुक्षीणरङ्गम् । ३. लालनक्रियाविशेषणमेतत्, कृपालुत्वादिति भावः । ४. अर्थाच्छान्तिम् ॥१६॥ नर! नम 'परपङ्कावासहिंसोधुरीणा
खिलभविभयभीरुं दूरभीपङ्कमङ्कम् । छगवरमवगाढं पालयन्तं सुगूढं,
सदयमनयमन्थं कुन्थुदेवं सुसेवम् ॥१७॥ अ० - १. पाप । २. शौनिकवृकादिजीवः । ३. अजवरविशेषणमिदम् । ४. भीरुत्वादेव निर्भयमङ्कमाश्लिष्टवन्तं छागवरम् । केलेति(?) शेषः । ५. मन्थनं मन्थोऽनयस्य मन्थो यस्मात् सोऽनयमन्थः, यद्वा मन्थतीत्यचि मन्थः । ततो अनयस्य मन्थत्वम् । ६. फलदायित्वेन अतिशायिनी सेवा यस्य ॥१७॥ तमरममरदर्तामन्दमन्दारमाला
___ परिमलरसबोलम्बिरोलम्बमालम् । निरवमनवहेमच्छायंकायं नमामो
__ऽमरगिरिमिव कण्ठे वारिवाहावगाढम् ॥१८॥ अ० - १. पूजार्थम् । २. आलम्बिनी । ३. परितोलना, ४. आश्लिष्टम् ॥१८॥ बहुलमिह वहन्तं कुन्दमन्दारमल्ली
कुसुममसमवल्लीमञ्जुलंमल्लिदेवम् । चिरमुरसि वहामो भूरिताराऽविरामा
वलिविमलविहायोमण्डलं किन्नु नीलम् ॥१९॥ अ० - १. जात्यपेक्षमेकवचनम् । २. नीलवर्णत्वात् । ३. भूरिताराणा- . मविरामा- अपारा आवलयो यत्र विहायोमण्डले तत्तथा ॥१९॥
'कुवलवलयकायं कुन्दजिद्दन्तैपाली
____च्छविभरपरिभोगं देवमल्लीपुरोगम् । तमरिहमिह सेवे वारिवाहं सवारिं, .. . "किमसमबिसकण्ठीमण्डलीलीढकण्ठम् ॥२०॥ अ० - १. श्यामत्वात् कुवलमण्डलदेहम् । २. श्रेणिबद्धत्वात् पालीव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org