________________
१८१
जान्युआरी - २०१४
पञ्चम्यां समहं मुहूर्त्तमकरोत् प्रासादनिष्पत्तये ॥१०१॥ . . तुष्टेन प्रथमं नृपेण रुचिरा दत्तोच्चकैरुद्धरा, तत्राऽप्यम्बिकया शिलाऽस्य पृथुला दीर्घा प्रसादीकृता । प्रासादो रमया सदाप्य समया निर्मापितः सत्वरं, सर्वे भाग्यवतां सतां गुणवतां साहाय्यकर्ता भवेत् ॥१०२॥ प्रासादं विशदं विलोक्य सहसा स्रष्टा जगौ स्वां सुतां, त्रैलोक्यं सृजता ह्यर्जि न मया वत्सेऽधुनाऽसौ कृतः । साऽवोचन्नरदेसुतः सुविदितः सङ्ग्रामनामा जयी, तेनाऽयं खलु कारितः स सुविधिर्ब्रह्माऽऽह जीयाच्चिरम् ॥१०३।। श्रुत्वा स्त्रीणामवश्यं सुरयुवतिततिर्वज्रिवक्त्राद् मदाढ्या, नाट्यं चक्रे विधातुं निजकलकलया वीतरागं सरागम् । दुर्भेद्यं तं तु मत्वाऽक्षितिचरचरणा निनिमेषाक्षिपक्ष्मा, हीताऽऽश्चर्यं विधत्ते तदिह जिनगृहे पुत्रिकाव्याजतो यत् ॥१०४॥
अव० - एकदा मुदा वितन्द्रः सौधर्मेन्द्रः स्फुरत्प्रभायां सभायां कृतमन्मथमाथं श्रीनेमिनाथं विश्वाभिरामाणामपि रामाणामवश्यं वश्यं नेति जगौ । तत् सम्यग् निशम्य उर्वशीप्रमुखाः सुमुखाः दीप्ततेजोलेश्याः स्वर्वेश्याः समानसे स्वस्वमानसे विचार्य परस्परं प्रोचुः "स्वामिनः स्वेच्छया यद् वदन्ति तद् वदन्तु, परं परमेष्ठिपुरुषोत्तमशम्भवो वशाभिर्वशीकृताः सन्ति । असौ सुरासुरनरैर्गेयोऽपि तन्नामधेयोऽस्ति । अतः प्रधानात् सदृशाभिधानात् वनितावशो भविष्यति ।" इदमुक्त्वा सौधर्मेन्द्राग्रे प्रतिज्ञां कृत्वा रैवताद्रिं गत्वा गृहीतसंयमस्य श्रीनेमीश्वरस्य पुरतो नाट्यं चक्रुः ।
अथ वृत्तार्थलेशः - मदाढ्या सती यन्नाट्यं चक्रे तद्युक्तम् । अन्याऽपि मदाढ्या नाट्यं करोति । परं या हीता सा अक्षितिचरचरणा निर्निमेषाक्षिपक्ष्मा च न भवति, नाट्यं च न विधत्ते । यतो निर्लज्जं गानं, निःप्रविष्टं नृत्तं तेनाऽऽश्चर्यम् ॥१०४॥
विद्यन्ते परकीर्त्तिवद् घनतराः पाण्डूत्तराः ख्यानय, एतत्कीर्तिसमा सुशब्दपरमा मम्माणखानिः पुनः । तेनाऽऽनाय्य तदुद्भवं मणिमयं ज्योतीरसाख्यं दलं, मूर्तिं कारितवान्नयं नयधनो नेमीशितुर्निर्मलाम् ॥१०५॥ देवैः स्वप्ने न्यगादीदृशमथ समये देवदेशस्थितैः स, पूर्वं याऽभूत् प्रतिष्ठा जनचयविदिता सा न दृष्टा विशिष्टा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org