________________
१८२
अनुसन्धान-६३
तस्मान्नो दर्शय त्वं सुमनस इह ये ते श्रियन्ते प्रतिष्ठाऽप्येतं ह्येतं विनिद्रा जिनमपि सविधे चारुलक्ष्मीसमेतम् ॥१०६॥ तत् सत्यं त्ववगत्य कृत्यविदुरं सम्प्रेक्ष्य शुद्धं महीराजं चेन्द्रियपक्षबाणकुमिते (१५२५) संवत्सरेऽमत्सरे । वैशाखोज्ज्वलषष्ठिकाशुभदिनेऽसौ कारयामासिवान्, श्रीनेमेनितरां निवेशसहितं श्रीमन्प्रतिष्ठामहम् ॥१०७॥ अव० - तद् देववचः सत्यमवगत्य, यतः -
"देवतास्तु तथा गावः, पितरो लिङ्गिनो नृपाः ।
यद् वदन्ति नरं स्वप्ने, तत् तथैव समादिशेत् ॥१०७॥" सद्वारो वरमत्तवारणधृतिर्भद्राकृतिः सुक्षमो, वर्यायः प्रतिमाश्रितः परिकराश्लिष्टः स्फुरन्मण्डपः । लक्ष्मीयुग् जगतीनतोऽक्षतमहापट्टः प्रतिष्ठान्वितः, प्रासादो जयतात् सुधोज्ज्वलरुचिः सङ्ग्रामनामा तथा ॥१०८॥
अव० - प्रासादपक्षे - सह द्वारेण वर्त्तते यः स, वराणां मत्तवारणानां धृतिर्धरणं यत्र, भद्राणां- भद्रनामधेयानां प्रासादानां आ- समन्तात् कृति:- करणं यत्र, सुष्ठ क्षमा- पृथ्वी यत्र, वर्यः- प्रशस्य आयो- गजादिर्यत्र, लक्ष्मी:- शोभा तया युक्तः, जगत्यां नतो- नम्रः, अक्षतानां महापट्टो यत्र ।
__ श्रीसङग्रामपक्षे - सती- शोभना वारा- वेला यस्य, मत्ता वारणा मत्तवारणा वराश्च ते मत्तवारणाश्च व० तेषु धृतिः- सन्तोषो यस्य सः, परिग्रहप्रमाणे हस्तिरक्षणनियमत्वात्, भद्रा- मनोज्ञा आकृतिर्यस्य, सुष्ठः- शोभना क्षमा यस्य अथवा सुष्ठ अतिशयेन क्षमः- समर्थः, वर्यः- प्रशस्य आयो- लाभो यस्य सः, प्रतिमाएकादश श्राद्धप्रतिमा-स्ताभिराश्रितः, परिकरः- परिवारस्तेनाऽश्लिष्टः- सहितः, जगत्या नतः, तात्स्थ्यात् तद्व्यपदेशात् पृथ्वीस्थजनेन नतः, स्फुरन्मण्डपो- देदीप्यमानो मण्डपदुर्गो यस्य, अक्षतः- सदास्थितो मण्डपिकासम्बन्धी महापट्टो यस्य । सुधा- अमृतं तद्वदुज्ज्वला रुचिः- सम्यक्त्वं यस्य ॥१०८॥
श्रीरत्नसिंहसूरीणा-मन्तेवासिनिवासिभिः । प्रशस्तिः स्वस्तिकृत् क्लृप्ता, ज्ञानसागरसूरिभिः ॥१०९॥ प्रासादस्था प्रभावाढ्या, देवीव विबुधप्रिया । सुवृत्तश्लोकयुक्ताऽसौ, सालङ्काराऽस्तु वः श्रिये ॥११०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org