________________
१७९
जान्युआरी - २०१४
वाण्याऽथोचे ममाऽपि प्रकटतरमिमं सत्यतावजितेयं, .. तस्यै दत्तं वचो द्राग् तदनु सदनवत् तिष्ठतस्तत्र ते द्वे ॥८९॥
आप्ताङ्गानि सुवर्णीधैः, सोपाङ्गानि प्रपूर्य सः । गुरून् यद् दर्शयेत् तानि, युक्तमर्थवतोऽस्य तत् ॥१०॥
अव० - श्रीसङ्ग्रामः सोपाङ्गानि- द्वादशोपाङ्गसहितानि, आप्ताङ्गानिजिनोक्तैकादशाङ्गानि सुवर्णोधैः- शोभनाक्षरसमूहैः प्रपूर्य- पूरयित्वा, यत् तानि गुरून् दर्शयेत्, अस्याऽर्थवतः- शास्त्रार्थयुक्तस्य तद् युक्तम् । अन्योऽपि योऽर्थवान् स आप्ताङ्गानि- स्वकीयहस्तादीनि सोपाङ्गानि- अङ्गुलीप्रमुखसहितानि, सुवर्णोधैः प्रपूर्यं तानि गुरून्- पित्रादीन् दर्शयेत् ॥१०॥
निजजायासहजलदे, श्रेयोऽर्थं विमलनाथवरचैत्ये । देवकुलिका तथैका, येनोच्चैः कारिता कृतिना ॥११॥ सुव्यापारेऽप्यसौ धर्म, यद् दधाति यदाशये । सद्गुणं तच्च चित्रं नो, सङ्ग्रामस्येदृशो विधिः ॥९२॥
अव० - असौ सुव्यापारेऽपि यदाशये- चित्ते सद्गुणं धर्मं दधाति तच्चित्रं न । यतः सडग्रामस्येदृशो विधिः- आचारः । अन्योऽपि यः सङग्रामः तत्र सुव्यापारेऽपि असौ- कृपाणे धावसरे शये- हस्ते सद्गुणं- प्रत्यञ्चासहितं धर्मधनुः सुभटो दैधाति ॥९२॥
ब्राह्म मुहूर्ते प्रविहाय निद्रां, सुखासनस्थो जनदत्ततन्द्राम् । ध्यात्वा पवित्रं परमेष्ठिमन्त्रं, स चिन्तयामास धिया स्वतन्त्रम् ॥१३॥ चित्रं त्वेतद् बुधेनाऽपि, कलावत्यविरोधिना ।।
कन्याराशिगति मुक्त्वो -च्चत्वं येनाऽऽश्रितं मतम् ॥९४॥
अव० - अन्यो यो बुधो ग्रहः स कलावति- चन्द्रे विरोधी भवति, कन्याराशि गत्वा उच्चत्वं श्रयति ॥९४॥
स एव विश्वाचरणप्रचारो, दृष्टिस्तथैषा वसतिस्तु सैव । न राजतेजो हि विनैकमाशा-गमो नृणां स्यात् सुकरोऽदरश्च ॥९५॥
अव० – विश्वं- समस्तं यदाचरणं- आचारस्तस्य प्रचारः- करणस्वभावः स एव । यथा राजतेजसि तथैव दृष्टिः- सम्यग्दृष्टिः एषाऽपि । तथा यथा पूर्वं वसतिस्थानं तदपि पूर्ववत् परमेकं राजतेजो विना आशागमो- मनोरथविस्तारोऽदरः सुकरो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org