________________
१२
अनुसन्धान-६३
अ० - १. युगपदिव, इदं वा 'अमलयन्तम्' इत्यत्र योज्यम् । २. हिमभासां जैत्रदेहस्य दन्तानां तथोरुकूलन्धय ऊरुतटस्थायी यो धवलकरो लाञ्छनचन्द्रस्तस्य चाऽत्यर्थप्रसारिकान्तिजलेन क्रमात् पृथ्व्याकाशपातालानि निर्मलयन्तमिव । ३. अङ्के चन्द्रभृतं अर्थाच्चन्द्रप्रभम् ॥८॥ नरवर! कुरु रामानामरामालिचूडा
मणिभुवमभवन्तं चित्तवासे वसन्तम् । नवमममलेभासं भासमिद्धोरुभाल
च्छलधवलकराभासङ्करेणेव विद्धम् ॥९॥ अ० – १. 'रामा'नाम्नी या स्त्रीश्रेणिचूडामणिस्तज्जं सुविधिमित्यर्थः । चित्तवासस्थाने वसन्तं कुरु इति अन्वर्थः । २. शुक्रः । ३. कान्तिदीप्तौ गुरुश्च यो भालच्छलाद् धवलकरश्चन्द्रस्तत्कान्तिसङ्गमेन व्याप्तमिव सन्तम् अमलभासम् ।।९।।
निरवमतमनन्दासुन्दरोदारतुन्दि. च्छलसलिलरुहाली केवली केवलाय । नवमरसनिलिम्पाहारसाराभिरामं,
_ नवमचरमकुण्डं किन्तु भूखण्डमण्डि ॥१०॥ अ० – अनिन्द्यतमाया नन्दाया सुन्दरोदारा या तुन्दिः- कुक्षिस्तच्छलकमलेऽली- भ्रमरः, अर्थाच्छीतलः । २. अस्तु इति योगः । ३. शान्तरस एव निलिम्पाहारः- सुधा । ४. नवमचरमं- दशममित्यर्थः । ५. पाताले नव सुधाकुण्डानि, शीतलस्तु भूखण्डस्थदशमसुधाकुण्डमिव ॥१०॥
भवभयजयिनन्दाभूपुरोगामिदन्त.. च्छविनिवहभवाभा' भूरिभद्रङ्करा मे । इह किल कलयन्ती भाववन्दारुदेवा
. सुरनरवरभाले काममुत्तंसकेलिम् ॥११॥ - अ० - १. भवभयजयी यो नन्दाभुवः शीतलजिनात् पुरोगामी श्रीश्रेयांसः । २. शोभा ॥११॥ 'दुरवमपरमोहं हन्तु मोहं जयाभू,
रविनववसुहासी कासरेणाऽवभासी ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org