SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ १७३ लाभो दानमिदं च मानमखिलाः सम्भूय तत्र स्थिता, . कीर्तिनसुता तदा प्रकुपिता तेभ्योऽतिदूरं गता ॥५७।। भूभृत्कोटियुतो न भूभृदयुतेनाऽसौ ततो जीयते, यत्स्थाऽनन्तरमासमाऽब्जचरमा न स्यात् सदाऽसत्तमा । यन्मध्यं न शतेन कोऽपि लभते दत्तेन वित्तेन वा, तं श्रीमण्डपदुर्गमिच्छति न को जेतुं धनप्राप्तये ॥५८|| अव० - असौ मण्डपो भूभृत्- पर्वतस्तस्य या कोटिरग्रं तया युतः । अतो भूभृदयुतेन- पर्वतरहितेन न जीयते, यतो भूमिस्थः पर्वतस्थं जेतुं न शक्नोति । अन्योऽपि भूपतिः कोटियुतो राजा भूभृदयुतेन- नृपदशसहस्रेण न जीयते । अब्जेकमले चरतीति अब्जचरा । अब्जचरा चासौ मा च अ० कमलवासिनी लक्ष्मीः । यत्स्था- यस्मिन् मण्डपे स्था यत्स्था । न विद्यतेऽन्तो यस्या साऽनन्ता अनन्ता चाऽसौ रमा च अनन्तरमा । यत्स्था चाऽसावनन्तरमा च यत्स्थानन्तरमा तया समा न स्यात् । किल० अब्ज० सदा असत्तमा नित्यमविद्यमाना, रात्रौ विगमात्, अवस्था पुनरक्षया । अन्यदपि अब्जचरमं अब्जं चरमं यत्र सङ्ख्यायां, तदनन्तसमं न भवति । यस्य नगरमध्यं शतेन वित्तेन दत्तेन न लभ्यते, यतः कारणात् शतेन दत्तेन मध्यं- मध्यनामानं सङ्ख्यारूपं न लभ्यते । यतः - • यथोत्तरं दशगुणं, भवेदेको दशाऽमुतः । शतं सहस्रमयुतं, लक्षप्रयुतकोटयः ॥१॥ अर्बुदमब्जं खर्वं च, निखर्वं च महाम्बुजम् । शङ्कर्वार्द्धिरन्त्यं मध्यं, परा चेति नामतः ॥२।। इति दशगुणाङ्कनामानि ॥५८॥ हुसिंगशाहिक्षितिपो मुदाऽन्यदा, बहिर्गत: कुत्रचिदुत्सवे नवे । मातङ्गमार्दङ्गिकमग्रतो वशाः, पश्चान्नरान् वीक्ष्य सविस्मयोऽभवत् ।।५९॥ ततः स खोजूमलिकं समीपगं, जगौ किमेषा विपरीतताऽद्भुता । एषोऽप्यवोचन्निजदेशरीतितः, कुर्वन्ति लोका न पुनर्विवेकिता ॥६०॥ भूपोऽवदत् तर्हि विवेकयुक्त-देशात् समाकारय तं मनुष्यम् । यत्सङ्गतोऽन्ये सविवेकिनः स्यु-रत्र स्थिता उत्तमवंशजाताः ॥६१।। विवेकपात्रं स तु गुर्जरात्रं, श्रीस्तम्भतीर्थं च पुरं विशेषतः । तत्राऽपि वृद्धं नरदेवसञ्ज-माकारयत् स्वीयकुटुम्बयुक्तम् ॥६२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy