SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७४ ॥६५॥ अनुसन्धान- ६३ कालं कियन्तं निजपार्श्वदेशे, संस्थाप्य भव्यावसरेऽन्यदाऽऽप्तः । अमेलयद् भूपतिमस्य सोऽपि, कोशाधिकारत्वमदात् प्रहृष्टः ॥६३॥ व्यापारं प्राप्य केचित् स्वजनजनचयं नैव पश्यन्ति दृष्ट्वा, केचित् कुर्वन्त्यपारं करभरमकरे लोकसन्तापहेतुम् । मिथ्यात्वे यान्ति केचित् परयुवतिरताः केऽपि कुर्युः स्वकृत्यं, किन्त्वेष स्वीययुक्तः करनिकरहरः शीलसम्यक्त्वधारी ॥६४॥ यद् दुष्काले कराले नरपतिरिह नो पाति मर्त्यान् कुमृत्योविक्रीणीयात् पिताऽपि स्वसुतममुकृतेः चोर्वरा रङ्करूपा । सत्रागाराणि तस्मिन् प्रकटतरमसौ मण्डयित्वा ह्यरक्षद्, भूस्पृक्बीजं सुधीजं दिननृपबिरुदं तेन जज्ञेऽस्य लोके ॥६५॥ दिननृपबिरुदं 'दीहाडीरा' इति बिरुदम् । सुधीजं - सुबुद्धिकृतम् अव० सत्रागाराणि कुर्वन्ति, निजगेहे घना जना: । सत्यता पुनरेतस्य, नवीनानि प्रकुर्वतः ॥६६॥ दानं श्रीनरदेवमेवमवदद् देवांशिनो ये पुराऽभूवन् भूरितरा: कुदानवदरात् ते स्वर्गलोकं गता । तेनाऽऽधारविवर्जितं समभवं तस्याऽर्त्तिहर्ता भवांस्तस्मादुद्धर मां यतस्त्वमसि नो प्रत्यक्षदेवोऽधुना ॥६७॥ अव० , पूर्वं येऽभूवन् ते देवांशिनः तेषु देवानामंश एवाऽभूत्, अतस्ते स्वर्लोकं गताः स्वस्थानकत्वात्, तत्र स्थितस्वकीयपक्षमेलापकत्वाच्च । त्वं तु नररूपेण देवो नरदेवः, अतः प्रत्यक्षदेवः । यः प्रत्यक्षदेवः स सर्वेषामत्तिं हरति निराधाराणामाधारो भवति ॥ ६७ ॥ — तच्छ्रुत्वा स जगौ सगौरवमदो भूयात् परं प्रौढतां, नीतं त्वं किल यासि तं तु तदवग् वंशेऽपि तेऽहं स्थिरम् । नोक्तं मे यदि मन्यसे तव मतं शीलं तदा साक्षि सत्, तद्वाक्यात् स्वगृहे निवासितमिदं द्वेधाऽपि लक्ष्मीप्रदम् ॥६८॥ अव० तदा तव मतं- वल्लभं सत् - विद्यमानमुत्तमं च शीलं साक्षि । किल० दानं, द्वेधाऽपि लक्ष्मीप्रदं, दानेन गृहे धनं शोभा च भवति ॥६८॥ -- Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy