SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७२ अनुसन्धान-६३ दुष्काले ही कराले पुनरमुमतुलं संस्मरन्ति प्रसूवत्, नीचानीचप्रजानां परविषयभुवां स्थानदानप्रवृत्ता ॥५४॥ अव० - अन्याऽपि या माता सा नीचानीचप्रजानां- लघुवृद्धापत्यानाम् । पर० प्रकृष्टकामजातानां स्थानदानप्रवृत्ता भवति । प्रथमार्थो विषयो- देशः ॥५४॥ मालवोऽपि जनाधारो, दुष्कालादौ हि यद् भवेत् । हेतुं धाराधराम्भोज-शस्यश्रियमवेहि तम् ॥५५॥ अव० - धाराधरो- मेघस्तस्याऽम्भो यन्नीरं तज्जां शस्यश्रियं 'दन्तापदिष्टं तालव्यस्याऽपि' इति न्यायात् सस्यश्रियं- धान्यलक्ष्मीं तं हेतुं विद्धि । दैवतबलान्मालवे वर्षे वर्षे वर्षा वर्षति, तेन धान्यं निष्पद्यते । ततो दुष्कालादौ आधारः । द्वि० - देशवर्णनाधिकारात् यत्र देशे मालवोऽपि- लक्ष्मीलवोऽपि, दुष्कालादौ दुष्कालेदुभिक्षे आदिशब्दात् बन्दिगृहे राजदण्डे च जनाधारः । स्वल्पधना अन्यजनपदजनाः दुष्कालादौ मालवे यान्ति, न तु मालवीयाः कुत्रचित् यान्ति । अत्र को हेतुः ? उच्यते भोजशस्यश्रियं तं हेतुमवेहि । भोजेन चतुर्वर्णानां घनतरं वित्तं दत्तं, तेनाऽधुनाऽपि तल्लवोऽस्ति । किं० श्रियं ? धाराधरां- धारां नगरी धरतीति 'तास्त्स्थ्यात् तद्व्यपदेशः' धारानगरीस्थान् जनान् प्रपततो धरति । अथ धाराम् उपलक्षणत्वात् खड्गधारां धरतीति, भोजेन खड्गधारया श्रीरजिता तेन सा सत्त्ववती ततस्तद्भोक्तारोऽपि सत्त्ववन्तः । तृती० - अव्ययानामनेकार्थत्वाद् अपिशब्द इहार्थे । इह देशे प्रौढस्थानेषु मालवो माया- लक्ष्याः अलव:- समूहः सत्रागारादिकर्मणा यद् दुभिक्षादौ जनाधारो भवेत् । धारां धरतीति धाराधरम् । धाराधरं च तदम्भोजं च धा० पद्महदकमलं, तत्र या शस्यश्री:- प्रधानलक्ष्मीदेवता तं हेतुमवेहि । तत्रस्था लक्ष्मीदेवता प्रसन्ना सती तेषां धनं ददाति । ततस्ते वित्तव्ययं कुर्वन्ति । तदब्जं पाषाणमयम् अतः पत्रेषु धारा शैलोऽयं पृथुलश्चयोंऽप्यशिथिलः प्राकार उच्चस्तरोऽगाधैषा परिखा ततो निवसितुं युक्तं विचार्येति मे । लोकानाह हुसिंगशाहिनृपतिर्वासं प्रकुर्वन्त्विहाऽऽम्, तेऽप्यूचुः सकलाः परस्परमथो आलोचयाञ्चक्रिरे ॥५६॥ अव० – चयो०- वप्रस्य पीठभूः । ते आमित्यूचुः ॥५६॥ गोत्रोऽसौ खलु मण्डपेति विषमस्तेष्वेक एवं जगौ, लक्ष्म्या शं भुवि यत्र तत्र कमलां ते प्राहुरायंत्र मा (यन्नमी) । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy