________________
आ
-
२०१४
व्याधो डुङ्गरसारेण, यच्चिन्तयति तत् सृजेत् । नो चेदग्रेसरी भूत्वा, जीरापल्लीं कथं व्रजेत् ॥५०॥
अव० डुङ्गरसारेण - डुङ्गरधनेन, द्वि०
पर्वतबलेन ॥५०॥
नरदेवात् पुरा येऽत्र, सञ्जाताः स्वजनव्रजा: । स्तम्भतीर्थे जनिस्तेषां, परेषां मालवे पुनः ॥५१॥ इतो मालवदेशवर्णनम् -
पृथ्वीमण्डलमात्ममण्डलबलादादित्यवद् येन सद्, व्याप्तं स्वीयकरैर्घनाश्रययुतं तन्नैष देशाधिपः । स्वक्षेत्राद् रविणाऽपि सिंहविभुता दत्ता तथाऽऽप्ता परं, तद्वन्मालवनीवृतः सुखजुषः श्रीविक्रमार्केण सा ॥५२॥
अव० - येन कारणेन श्रीविक्रमार्केण आत्ममण्डलबलात्- स्वदेशबंलाद् । घ० घनाश्च ते आश्रयाश्च तैर्युतं सद्- विद्यमानं पृथ्वीमण्डलं स्वीयकरैर्व्याप्तं तत्कारणादेष देशाधिपो न, किन्तु पृथ्वीपतिः । किंवत् ? आदित्यवत् । यथाऽऽदित्येनाऽऽत्मण्डलबलात् स्वबिम्बबलाद् घना० आकाशसहितं भूमण्डलं व्याप्तं क्रियते, तन्नैष- तत्कारणादेष सूर्यो देशाधिपो भागाधिपो न । परं केवलं रविणाऽपि स्वक्षेत्रात् - स्वस्थानतः सिंहस्यैव विभुता दत्ता, न तु मेषादीनां यतोऽन्या मेषादिराशयो नामतः सामान्याः । तथा सिंहाद् विभुताऽऽसा 'सिंहस्य चाऽधिपः सूर्यः' इति वचनात् । तद्वत् तथा श्रीविक्रमार्केण मालवनीवृत:- मालवदेशस्य सा सिंहविभुता दत्ता, परैर्दुर्धृष्यत्वात्, तया ततः साऽऽप्ता न च सिंहन्यायेन । नीवृत्-शब्दाग्रे प्रथमं षष्ठी पश्चात् पञ्चमी ॥५२॥
ऽधुना,
ये भोजप्रमुखाः सुधारुचिसुखा भूपाः सुरूपा: पुरा, दानोदारतरा बभूवुरदरा विद्वद्वरा: सुन्दराः । ये चाऽन्येऽपि जना घना गुरुधनास्ते यत्र सर्वेऽ तत् सन्मालवमण्डलं विजयते विश्वावधूकुण्डलम् ॥५३॥ अस्तोका दक्षलोकाः स्वपदजनपदं वर्णयन्तु प्रकामं, सर्व्वस्थामाभिरामं स्वजनचयमिवाऽनेकपाले सुकाले ।
Jain Education International
१७१
For Personal & Private Use Only
www.jainelibrary.org