SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ १६९ धरमाकस्य दयिता, धर्मा देवी तथा सुताः । भोजा-वरसिंग-हापा-नरसी-नागडाह्वयाः ॥३०॥ माणिक-मण्डण-भीमा, भोजाकस्य सुतास्त्रयः । . सर्वे सङ्घपतीभूय, यात्रां चक्रुः प्रमोदतः ॥३१॥ सौर्णिकस्य सद्गोत्रे, यन्माणिक्यस्य सम्भवः । तच्चित्रमथ भोजस्य, गृहे किं नो भवत्यहो ? ॥३२॥ अव० - अन्यो य सौवर्णिकः- सुवर्णसम्बन्धी गोत्र:- पर्वतस्तत्र माणिक्यं न भवति । अथ भोजस्य गृहे किं न भवति ? यतस्तत्र सुवर्णं माणिक्यमपि च स्यात् ॥३२॥ मण्डपे मण्डनमिव, मण्डनोऽसौ विराजते । वामानन्दकृदाकारः, शोभाभृत् चारुवर्णयुक् ॥३३॥ अव० - अन्यदपि मण्डनम्- अलङ्कारः, तन्मण्डपे शोभते । वामानाम्उत्तमानां स्त्रीणां च । चारुवर्णो- वणिग्वर्णः पीतादिवर्णश्च ॥३३॥ महाबलयुतो जीयाद्, भीमो भीम इवाऽतुलः । दुर्दिने शरणं यस्य, प्रपद्यन्ते घना जनाः ॥३४॥ जीयादहिवदेजातो-ऽतिजातो गुणसम्पदा । जावडो जडतामुक्तो, भीमाकस्य सुतः स्तुतः ॥३५॥ वरसिंगसुतौ द्वौ श्री-नरदेव-धनाह्वयौ । आद्यसुतः श्रीसङ्ग्रामः, सोनाईकुक्षिसम्भवः ॥३६॥ विनयवती सहजलदे, तथा गुराई प्रियाश्च रत्नाई । श्रृङ्गारदे सुनाम्न्य, पञ्चैता अस्य शीलतुयाः ॥३७|| हापासूनुस्तु वीघाख्यो, वाकूकुक्षिसमुद्भवः । चंपाई वल्लभा चास्य, श्रीसूरिपदकारिका ॥३८॥ साण्डाख्यो नरसीपुत्रो, देईकुक्षिविभूषणः । कुलोद्योतकरश्चाऽस्ति, नागडो ब्रह्मचार्यभूत् ॥३९॥ सर्वज्ञसेवां साण्डाख्यो, यत् कुर्यात् तच्च युक्तिमत् । परं निरङ्कस्तच्चित्रं, नरसिंहसुतस्तथा ॥४०॥ अव० - अन्योऽपि यः साण्डो- वृषभः स सर्वज्ञसेवां- ईश्वरसेवां यत् करोति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy