________________
१६८
अनुसन्धान-६३
अवसरो यस्य, सती- विद्यमाना वेला- अम्भोवृद्धिर्यस्य । गुरवश्च जिनाश्च तैः कलितः, द्वि० - उत्कृष्टकृष्णकलितः । लक्ष्मी:- शोभा देवता च ॥२२॥
तीर्थस्थाननिवासिनां भुवि भवेद् भावः स्वभावेन नो, तीर्थे तत्र परत्र वा कलियुगेऽप्येषां पुनदृश्यते । श्रीशाणप्रमुखा यतोऽत्र सुमुखा देवालयैः संयुताः, सङ्केशाः समकालमेव समहं जाताश्चतुर्विंशतिः ॥२३॥ आधारो गुरुभूभृतां प्रपततां शाखाशतेनाऽन्वितः, सङ्गत्यागकरो जडैः परमहाजीवातुधर्मोत्तरः । अन्तःसारयुतः सुपत्रकलितश्छायाश्रितः सर्वतो, नव्यः कोऽप्युपकेशवंश इतरैर्जीयादभेद्यः सदा ॥२४||
अव० – कोऽप्यपूर्व उपकेशवंशो जीयात् । किल० प्रपततां- पतनशीलानां, गुरुभूभृतां महाराज्ञा(जाना)माधारः । अन्यो यो वंशो भवति स भूभृतां- पर्वतानां आधारो न । जडैः- मूर्खः जलैश्च । परः- प्रकृष्टो महाजीवातुः- महाजीवनौषधं यो धर्मो- दयामूलस्तेनोत्कृष्टः । अन्यो यो वंशः स परेषां- वैरिणां महाजीवातुःमहाजीवनौषधं यो धर्मो- धनुस्तेनोत्तरो न । अन्तःसारं- अन्तर्धनं, वंशः अन्तर्मध्ये सारेण- बलेन युतो न, सशुषिरत्वात् । पत्राणि- वाहनानि पर्णानि च । छाया- शोभा आतपाभावश्च । नव्यः- स्तव्यः ॥२४॥
तदन्वये धर्मधुराधराणां, सङ्ग्रामजन्मप्रभुतावराणाम् । ब्रवीमि नामानि कियन्ति साक्षाद्, ज्ञात्वा प्रसिद्धानि सुदक्षलक्षात् ॥२५॥ प्रासादपङ्क्तिप्रवरे प्रसिद्धे, श्रीस्तम्भतीर्थे नगरे समृद्धे । सौवर्णिकः साङ्गणनामधेयः, सद्धर्मकर्माऽजनि चारुगेयः ॥२६।। तत्सुतः पद्मसञ्ज इहाऽऽसीत्, पद्मवत् प्रवरमित्रसङ्गतः । सद्विधिसुकमलानिकेतनः, किन्तु राजकरपीडयोज्झितः ॥२७॥ सूर इत्यभिधया तदङ्गजः, सूरवत् सकलतेजसां निधिः । दर्शिताखिलपथो वराम्बरः, सत्करः क्षितमहातमोभरः ॥२८॥ धरमा-धीरा-करमा-ऽभिधानास्तत्सुतास्त्रयः । रत्नत्रयीव भव्यानां, महोदयनिबन्धनम् ॥२९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org