SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५२ संख्यातीतमहानदीनविमलाम्भोराशिरूप्यात्मकोदारस्फारमसीभिरुत्तरमहावीर्य्यप्रतापोद्भटाः । दिव्याऽचिन्त्यसुशक्तिपङ्क्तिकलिता दिव्यप्रभाभासुराः, संख्यातीतसमायुषः सुविलसद्देवीविलासान्विताः ||३४|| ये भूता यदि भाविभो (नो ) ऽपि च भवन्तोप्यत्र कालत्रयेतोऽते भाविनि संभवत्यपि तदा सम्भूय सात्यद्भुताः । रङ्गद्गाङ्गतरङ्गरङ्गसुमिलच्चञ्चच्छरच्चन्द्रिके नालोकां विलसद्गुणावलिमनन्तानन्ततां बिभ्रतीम् ||३६|| जानद्भिर्भगवद्भिराननकजेनावाच्यरूपामपि, अनुसन्धान-६२ लोकसमस्तपुष्करदले नात्र ह्यनन्ते मले ( ? ) । शश्वत्ते लिलिखुल्लिखन्ति नितरां कृत्यं विमुच्याखिलं, लेखिष्यन्ति तथापि ते हि सकला भावा व्रजन्तोऽव्ययम् ॥३७॥ पारं न प्रययुः प्रयान्ति न तदा यास्यन्ति नो कर्हिचित्, तस्यास्ते मयकाह मन्दमतिना स त्वं कथं स्तूयसे । योगीन्द्रैरपि चारुवाङ्मनसयोर्वालक्ष्यरूपोद्यतः, स्वस्य स्वच्छविरूपकेवलचिदानन्दात्मकत्वादलम् ||३८|| (पञ्चभिः कुलकम्) सदा विश्वव्याप्तोऽखिलकुमतविध्वंसकरणाष्टमस्थस्वर्भानोरघतिमिरभानोर्भगवतः । प्रशस्तस्याद्वादोद्धतवचनतन्त्रीकृतज[ग]त्त्रयस्याग्रेगण्याऽमरशिखरिधीरत्वविजितः ॥३९॥ समस्ताधि-व्याधि-व्यसन-निधियादोनिधिविधि प्रपाने पीताब्धिप्रतिनिधिरुदाराय सुलभः । प्रसादोऽमन्दारामरमणिसुगीर्वाणसुरभी समानो वो भूयान्मम सपरिवारस्य सततम् ||४०|| चिदानन्दलहर्य्याख्या स्तुतिरेषा जिनेशितुः । आचन्द्रार्कं च बोभूयात्स्थायिनी मोददायिनी ॥ ४१|| (अनुष्टुप्) समाधिप्राग्भारामृतजलधिवेलाम्बुजननि, मुदा स्पृष्टा येनोज्ज्वलतरचिदानन्दलहरी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy