SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५० अतोऽमी तीर्थेशा वरगुणमहान्तोऽपि सुधियः कृतघ्नाः संजाताः कुत उपकृति मे गुरुतराम् 1 अरं विस्मृत्याऽनुत्तरशिवपदं जग्मुरभयं विधायाऽस्य द्राग् मे मम निखिलसैन्यस्य निधनम् ॥२१॥ ये भूता भवभाविनो हि बहुशः संवर्तमानास्तके संसारोद्गमिता अनन्त - भविनो भव्यात्मनो निर्वृतिम् । भव्यानन्तजनैर्विहीनमिमकं संकर्तुकामा भवं ह्येते सर्व्वजिनेश्वरा मम महाप्रत्यर्थिनः सन्त्यतः ॥२२॥ समस्तं त्रैलोक्यं लघुतर-कंनिष्ठाङ्गुलिजया सुकोट्या प्रोत्पाट्यान्तरमलमलोक सुतराम् (?) । विभुः पार्श्वशोऽयं गमयितुमरं नेतरहरिर्ह्यतोऽनन्ता शक्तिर्भगवति दरीदृश्यत इति ॥२३॥ अचिन्त्यैषां शक्तिर्गुरुतरमहावीर्य्यधरणादजय्या एतेऽतो जिनवरनियुक्तस्य भवता । निरोधः कर्त्तव्यो जिनपयतिनां मुक्तिसरणेरतस्संसारोऽयं न भवति सखे ! भव्यवियुतः ॥२४॥ इति श्रुत्वा वाचं धृतमदमहामोहनृपतेस्तदेवं सज्जोऽभूज्जलधितनयासूनुरभयः । समस्तत्रैलोक्यान्तरगतसमग्रामनगर अनुसन्धान-६२ स्त्रियो गण्याचिन्त्याद्भुतललितलावण्यकलिताः ॥२५॥ अनङ्गव्याप्तात्माऽखिल- सुर-नर- स्वान्त - हरिणाऽपकर्षाभेद्याछेद्यघनतरपाशप्रतिनिभाः । इमा याः सन्तीह प्रियललितवक्षःस्थलजयोस्तकासां सौन्दर्याद्भुतकनककुम्भोपमितयोः । भुजाजङ्घाजेत्रोदरवरशरच्चन्द्रवदना दिमां गोपाङ्गाग (ङ्ग?)प्रकरवृतयोश्चित्तहरयोः ||२६|| षट्पदं काव्यम् || सुदुल्लंघ्यस्फूर्जत्कुचशिखरिणोस्तुङ्गतरयो र्गभीरायां नाभीरुचिरदर्य्यां पुनरसौ (?) । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy