SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ओगस्ट - २०१३ तितीर्षन् संसारं झटिति गमयन्तीह चरितं, तदैतद् दृष्ट्वाऽयं भवति हि भवो भव्यविरही । अमुष्यारिव्यावा विपुलतरचिन्ताकुलतया, महामोहेनैवं मदनपुरतश्चिन्तितमहो ॥१४।। विहायान्यत् कृत्यं स्मर शृणु मदुक्तं व्यतिकरं, य एते गीर्वाणाः परमविभवैश्वर्य-कलिताः । समस्ता इन्द्राद्या हरि-हर-विरञ्चि-प्रभृतयस्तथाप्यन्ये सृष्टि-स्थिति-प्रलय-कर्तृत्वनिरताः ॥१५।। त्रिलोक्याः संपूज्याः सकलजगतां वल्लभतमा इमे त्वेतादृक्षा अपि मम महाज्ञानुचरिणः । अहं चित्ते नित्यं मम भवतु योगो नहि कदाप्यमीषां ध्यायामि स्फुटतरवियोगः सवयसाम् ॥१६।। (द्वाभ्यां सम्बन्धः) पुनर्पा संसारस्थितिपरमवृद्ध्यर्थमुररीकृतव्यापारास्ते मम परममैत्रीमुपगताः । मया प्रागत्रापि स्फुटविविधभोगैः सुखकरैमनोऽभीष्टां नीता घनतरसुपुष्टिं सुरवराः ॥१७|| अतस्ते मन्वाना उपकृतिमिमां मे बहुतरां मयि स्नेहौत्सुक्यादपि रुचिरनिर्वाणपदगाः । भवे वारं वारं समवतरणं संविदधते मम स्फीत-प्रीति-प्रतति-ततितां पल्लवयितुम् ॥१८।। इमे ये जैनेन्द्रास्त्रिभुवनजनैर्ध्वन्दितपदा महान्तो विज्ञाना सकलभुवनव्यापियशसः । भृशं लोकालोकप्रकटनपरा विश्वविदिता महादेवा आसन्निखिलजगतां पालनपराः ॥१८॥ मया पूर्वं नानाविधललितलावण्यविजिताऽमरस्त्रीसौन्दर्यस्वयुवतिविलासैनिरुपमैः । तथैवान्यै|गोद्भवसुखभरैः संप्रति कृता महाभक्तिस्त्वेषां तदपि मम तन्त्रं नहि गताः ॥२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy