SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४० अनुसन्धान-६२ यत्प्रतेरुत वाक्यार्थनिर्देशोक्तविपर्यये । तेनाऽहमुक्तो यदुतैतत् करिष्यसि । न दोषः पुनरुक्तेऽपि प्रत्युतेयमलङ्क्रिया । किमोऽङ्गात् पुनः । प्राकृतोऽपि नाऽवमन्तव्यः, किमङ्ग राजा किमुत विद्वान् । किं पुनरित्यर्थः । यत् तद् येन तेन यतस्ततो हेतौ । यत् सभासु प्रगल्भसे तत् पूज्योऽसि । येन दाता तेन श्लाघ्यः । यतो विद्वांस्ततः सभ्यः । यथाकथाचाऽनादरे । यथाकथा च दीयते । यथाकथा चाऽदक्षिणा । अठाऽवर्भत्सने । अठ करोतीत्यादि । दिष्ट्या समुपजोषं चेत्यानन्दे । दिष्ट्या पुत्रो जातः । समजोषं वर्त्तते । अथ बहौ कुचित् । कुचिदङ्ग धनं नः । मन्ये शङ्के वितर्के । मन्ये मार्तण्ड गृह्याणि पद्मान्युद्धर्तुमुद्यतः । शङ्के शशाङ्कोऽयं विद्यते इति । अनेकान्ते स्यात् । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति चेत्यादि । याति शक्यते । इदं कर्तुं याति । न यात्यन्यत्र । इदं कर्तुं न याति । सत्तायां विद्यतेऽस्ति भवत्यपि । विद्यते नाम, अस्ति नाम, भवति नाम तत्र भवान् वृषलं याजयिष्यति । वर्त्तत इति सोल्लुण्ठगात्रसंवरणे पदम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy