________________
ओगस्ट - २०१३
३९
श्रौषट् वौषट् वषट् स्वाहा स्वधा देवहविर्तुतौ । अस्तु श्रौषट्, अस्तु वौषट्, वषडिन्द्राय, सोमाय स्वाहा, स्वधा पितृभ्यः । एवं यथा तथा चेव साम्ये ।
यथा कर्ण एवं पुरुषः । यथा चैत्रस्तथा मैत्रः । जातां मन्ये शिरसि मथितां पद्मिनी बाष्परूपाम् । शारदाभ्रमिव पेलवमायुः ।
अभ्युपगमेऽथ किम् । देवदत्त गच्छस्यथ किम् ? सह साकं समं सार्द्धं सत्राऽमा । पुत्रेण सहाऽऽगतः स्थूलो गोमान् वा । एवमन्येऽपि । हमसंमतौ । हं क एवमाह । हि स्फुटोड(?) । को ह्यबालिशो हस्तगतं पादगतं कुर्यात्(?) । अतर्कितेऽकस्मात् सहसैकपदे तथा वियोगे ।
किमित्यकस्मात् कुप्यसि । दिव: प्रसूनं सहसा पपात । अयमेकपदे तथा वियोगे ।
नकिरौपम्ये । मेघो नकिर्वर्षति । यदि नाम विपर्यये । यदि नामेति प्रकृतस्य विपर्यये । विप्रोऽसि यदि नाम मूर्खः । कदाचित् कर्हिचिज्जातु । कदाचित् विहरन् सोऽथ चित्रकूटमुपाययौ । तथा कहिचित् । न जातु काम: कामानामुपभोगेन शाम्यति । अहङ्कारेऽहम् । अहंयुः । शुभे शुभम् । शुभंयुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org