________________
२६
मिथो मन्त्रयन्ते, मिथो प्रियामाभाषते । एवं मिथः शब्दोऽपि । प्रसह्य शीघ्रहठयोः
1
प्रसह्य सिंहः किल तां चकर्ष ।
प्रसह्य वित्तानि हरन्ति चौराः । धिग् निर्भत्सननिन्दयोः । धिक् तार्किकान्, धिक्कृतोऽयम् ।
जोषं मौने सुखे ज्योष्यं च ।
जोषमास्व, जोषमास्ते जितेन्द्रियः । एवं ज्योष्यं च ।
अञ्जसा तत्त्वशीघ्रयोः ।
अञ्जसा वक्ति साधुः, अञ्जसा श्लोकं पठति ।
पापकुत्सेषदर्थे कु ।
पापो ब्रह्मा कुब्रह्म, कुपुरुषः, कामधुरम् । सपदि द्रुततत्क्षणे ।
सपदि प्रदहत्युपेक्षितोऽग्निः सपदि मुकुलिताक्षी । प्रत्यक्षतुल्ययोः साक्षात् ।
साक्षाद् दृष्ट्वा, इयं साक्षाल्लक्ष्मीः । अम्नः संप्रतिशीघ्रयोः ।
अम्न एवागच्छति अम्नरेवाऽऽगच्छति । स्वस्त्याशीर्मङ्गलक्षेमपुण्यप्रत्यभिवादने ।
,
आशिषि - स्वस्ति तेऽस्तु लतया, -- सुक्षा, मङ्गले- स्वस्ति श्रीकुसुमपुरात्। क्षेमे- स्वस्त्यस्तु ते सौम्य चिराय जीव । पुण्ये- स्वस्त्यस्तु ते धार्मिक मत्प्रसादात् । प्रत्यभिवादने - राज्ञा नमस्कृता विप्राः स्वस्तीत्येते प्रयुञ्जते ।
अद्धा तत्त्वे ।
अवैमि त्वामद्धा, तत्त्वत इत्यर्थः ।
मुधा व्यर्थे स्यात् । किं त्वं मुधा ताम्यसि ।
Jain Education International
अनुसन्धान-६२
For Personal & Private Use Only
www.jainelibrary.org