SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ओगस्ट - २०१३ चादिनिपातसंज्ञश्च न सत्त्वे च: समुच्चये । एवोऽवधारणे क्त्वादिः कृत्वा कर्तुं घटं घटम् ॥२॥ ऊरी शुक्ली पटपटा खाट प्रादेः कृत्यराजवत् । स्वः स्वर्गे परलोके च । स्वर्गे- स्व: सुखयति, स्वर्गच्छति, स्व: संजानीते, स्वः स्पृहयति, स्वरागच्छति, स्वः सुखं, स्वर्वसति । परलोके- स्वर्यातस्य ह्यपुत्रस्य । पुनर्भेदेपि । भेदो विशेष:- किं पुनर्ब्राह्मणः पुण्या भक्ता राजर्षयस्तथा । अपि-शब्दाद् भूयोऽर्थेऽपि- पुनरुक्तं वचः । रोदसी द्यावाभूम्योः सहोक्त्याऽपि स्त्रीवानीस्नुनपुंसकम् । अपि शब्दाद् दिवि भूमौ च पृथक् पृथक् । रुणद्धि रोदसी कीर्तिः, रुणद्धि रोदस्यौ, रुणद्धि सर्वं रोदः । वृथा निरर्थकाविध्योः । वृथाश्रमः प्रातिभाव्यं, वृथा दान-माक्षिकं सौरिकं च यत् । नानाऽनेकोभयार्थयोः । नानाविधा जनाः, नानापक्षावमर्शः संशयः । प्रशंसातिशये सुष्ठ । सुष्ठूक्तम्, सुष्ठु विभाति । समयाऽन्तिक-मध्ययोः । त्वां समयाऽऽस्ते, त्वदन्तिके इत्यर्थः । ग्रामं समयाऽऽस्ते, ग्राममध्ये इत्यर्थः । तिरोऽनूर्द्धवो(चे) तिर्यगर्थे । तिरोहितः, तिरः काष्ठं कुरु । कं मूर्द्धनि जले सुखे । कंजाः केशाः, कंजं पद्मम्, कंयुः । मत्वर्थे युः । साम्यर्द्ध कुत्सिते । सामि संमीलिताक्षी, सामिकृतमकृतं स्यात् । अन्योन्यं रहोऽर्थे द्वौ मिथो मिथः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy