________________
७८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
अहो पारावारे मणिगुरुगणो गर्जतितरां,
मयि ज्योतिर्जालाकलितकमलोल्लासिनि सति । इति क्रोधादेवाऽऽदधदविरतं पादकमले,
नखश्रेणी(णीं) यस्य त्रिभुवनपतेः शोणकमलाम् ||४|| [शिखरिणी] वः श्रेयांसि प्रथयतु विभुर्नाभिभूपालसूनु
भव्याम्भोजप्रकटविलसद्भानुभानुप्रकाशः । कालव्यालप्रबलकमलोच्छेदने वज्रतुण्डः,
प्रद्युम्नश्रीपरिहतिविधौ श्रीभवानीगुरुश्रीः ॥५॥ [मन्दाक्रान्ता] कमलयामलया कलितालयं,
जिनवरं वृषभं भज सम्भवम् । कमलकोमललोचनयामलं,
परिणतेन्दुपटिष्ठयश:श्रियम् ॥६॥ [द्रुतविलम्बितम्] इत्थं वृषभजिनेशो, नीतः स्तुतिगोचरं प्रथितपुण्यः ।
श्रीविजयसेनसूरेः, पादाम्भोजप्रसादेन ॥७॥ [आर्या] प्राज्यप्रौढपटुप्रतापपटलस्तम्बेरमाडम्बरं,
वल्गवैरिवितानवल्लि(ल्ली)विलसद्वन्दैकविध्वंसकम् । सिद्धान्तं वृषभं मृगाङ्कममरं श्रीशम्भवं संस्तुवे, बिभ्राणं भवभारभञ्जनकर श्रीदेवदेवाकरम् ॥१॥४॥ [शार्दूल०]
(३) यस्येशस्य यश:कदम्बकडमड्डिण्डीरपिण्डं स्फुटं,
प्रेक्ष्य प्रीतिपरम्परां प्रतिदिनं प्रापुस्त्रिलोकीजनाः । ब्रह्माण्डं स्फुटकोटरप्रकटनप्रारब्धपुण्यप्रभं,
स्फूर्जद्धामसुधामरीचिनिचयस्फारस्फुरद्वैभवम् ॥१॥ [शार्दूल०] प्रोद्यद्दपकदर्पसप्पटल श्रीवज्रतुण्डद्युति
श्रीभामण्डलमण्डलोल्लसितसत्प्रद्योतनद्योतकः । पुण्यां वः स जिनेन्द्रचन्द्रनिवहः पुष्णातु पुण्यश्रियं,
यस्य ध्यानमपाकरोत् किमपि नो दैवीवधूटीपटी ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org