________________
जान्युआरी - २०१३
७७
यत् सा तद् गुरुगौरवर्णकमलालङ्कारिणीव्यक्तितो,
वीक्ष्य व्योमवहां वदन्ति विबुधा एवं निजान्तधिया ॥५॥ युग्मः ॥ यस्य स्फारयशः सहस्रनयनस्तम्बेरमाडम्बरं,
यद् धौतद्युतिधोरणीभिरनिशं शीतयुतेर्मण्डलम् । न्यक्कारैकपदं नयत् स्फुटतया प्राचीनबर्हिःप्रियः,
स्वर्गाबद्धनिवासभृत् स तु पुनस्त्रैलोक्यब_लप:(बद्धालयः?) ||६|| इति वृषभजिनेन्द्रः संस्तुतो भक्तियुक्त्या,
गुरुगुरुचरणाब्जद्वन्द्वपुण्यप्रसादात् । प्रकटकपटकोटीस्फोटनस्पष्टशक्ति
दिशतु सकललोकान् दर्शनज्ञानशक्तिम् ॥७॥ [मालिनी]
मन्दारं सहितं जयन्तसहितं तीर्थेश! तीर्थेशगा
वासंसूदनसूदनप्रतिभटप्रध्वंसनप्रोद्भटम् । श्रीमन्तं वृषभप्रभो! भ्रमभयभ्रंशाय भव्यं भजे, देवानन्दविधायकप्रवचन! श्रीदेवदेवाकर! ॥१॥४॥ [शार्दूल०]
(२) गङ्गागौरतरङ्गरङ्गिततटे श्रीसिद्धसिद्धाङ्गना,
गायन्ति प्रकटप्रतापपटलं यस्य प्रभोर्भक्तितः । ध्येयं ध्यानधुरां निधाय विधिना तं श्रीकमानन्दनं,
तं स्तोष्ये वृषभं मृगाङ्कममलं श्रीशम्भवं सर्वदा ॥१॥ [शार्दूल०] यत्र त्रस्तकुरङ्गशावनयना पादारविन्दद्वयं,
यस्य श्रीजगदीशितुस्त्रिजगतीमाह्लादयन्ती सती । प्राचीप्राणपतेः स्वकीयवपुषो ज्योतिर्लसन्मण्डलैः,
प्रौढप्रीतिपरम्परापरिवृता नम्राङ्गमातन्वती ॥२॥ सत्सीमन्तनिबद्धशुद्धविलसन्मन्दारमालावली,
प्रोत्फुल्लामलकोमलोत्पलदलैर्याऽपूजयत् प्रत्यहम् । सा संसारमसारमाशु शमनं नीत्वा लभेताऽमृतं,
किं चित्रं ननु तत्र शम्भवविभुर्जीयाज्जगन्मण्डले ॥३॥ युग्मम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org