________________
जान्युआरी - २०१३
नम्रोरुक्षितिपालभालफलकक्रोडस्थपुण्ड्रावली
गोशीर्षद्रवशीर्षपुष्पपटलीपूज्यक्रमाम्भोरुहान् । गीर्वाणाधिपधोरणीकृतयशःसन्दोहगानान् नम
त्यत्रत्यः पुलकाङ्कुराङ्कितवपुः सङ्घः समग्रः प्रभून् ||७४।। भव्याम्भोरुहराजिबोधनविधौ बद्धोद्यमान् दुष्कृत
ध्वान्तवातविघातजातयशसश्चैत्याम्बरस्थायिनः । अत्रत्यान् जिनराजवासरमणीन् संसारनिद्राद्रुहः,
श्रीताताभिधया नमत्यनुदिनं शिष्यः प्रमोदोदयात् ॥७५।। अथ च – तातास्तत्र पवित्रयन्ति पृथिवीपीठं विनेयः पुन
स्तिष्ठत्यत्र मनोरथः कथमहो सिद्धयत्यशेषस्ततः । आनन्देन तथाऽपि वस्तदुचितादेशादिविश्राणन
स्फारानुग्रहलाभतः सुखयतादात्मानमेषोऽर्भकः ॥७६।। किञ्च - नो कौतूहलपूर्तये न मतिमत्सन्तुष्टये[.....],
नो ब्रह्माण्डविसारिसुन्दरयशःस्फातिश्रियो हेतवे । पत्त्री प्रीतिकरीमिमां रचितवान् सद्वृत्तविभ्राजितां,
किन्तु प्रौढगुणौघरत्नजलधेर्भक्त्यै गुरोः केवलम् ॥७७॥ इतरच्च – बिभ्राणा प्रसरद्विवेकविभवं सन्मानसोल्लासिनी,
चञ्चद्वर्णविराजिताऽद्भुतपदन्यासश्रिया पेशला । हंसीवाऽम्बुरुहोदरे करतलक्रोडे चिरं क्रीडनं,
कुर्वाणा कमलाकरे विजयतां श्रीसूरिचूडामणेः ॥७८॥ . तथा – अत्राऽलङ्कृतिवज्जितं भवति यन्निद्रव्यवत् खञ्जवत्,
पादोनं च यदस्तधर्म्यधनवन्मात्राविहीनं च यत् । क्षन्तव्यः स परास्तकोपकलुषैः श्रीतातपादैः समो,
मन्तुः प्राथमकल्पिकस्य करुणाकल्लोलिनीवल्लभैः ॥७९।। अथ - मासस्याऽऽश्वयुजस्य वृद्धरजनीराजप्रकाशोत्करे,
पक्षे प्रीणितसच्चकोरनिकरे नन्दाद्वितीयातिथौ । पीयूषधुतिनन्दने कलयता प्रीतिप्रकर्षं मया, __ पत्त्रीयं रचिता महोद्यमवता भूयात् सतां भूतये ||८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org