________________
७४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
किञ्च - माकन्दं कलकण्ठवद् भ्रमरवत् पङ्केरुहं क्रोडवत्,
___ कन्दं कोकवदब्जिनीप्रणयिनं पाथोमुचं केकिवत् । शीतांशुं चलचञ्चुवत् करटिवद् विन्ध्योर्वराभृद्वनं,
श्रीतातं स्मरति प्रतिक्षणमसौ बालः प्रमोदोद्धरः ॥६७।। अपरं – वर्षान्तर्विहितापराधपटलीत्यागाम्बुमुग्दूरिता
ऽशेषस्वान्तवसुन्धरातलमलः पञ्चाङ्गसंस्पृष्टभूः । भालाभोगनिवेशिताञ्जलिपुट: श्रीतातपादक्रमा
म्भोजद्वन्द्वमयं शिशुः प्रणमति प्रीत्या त्रिसन्ध्यं त्रिधा ॥६८॥ अन्यच्च – प्रोद्दामोदधिमेखलाहृदयचित्तैकपुष्पन्धय
श्रेणीप्रीणनकर्मठा विजयते यत्कीर्तिपाथोजिनी । तेषां वाचकचक्रिणां सुगुणिनां श्रीतातपादैः शिशो
विश्वानन्दिसुनन्दिनन्दिविजयाह्वानां प्रसाद्या नतिः ॥६९।। अपि च - गूढार्थग्रहणप्रसाधनपरप्रेक्षाप्रकाशोच्छिता
स्तोकश्लोकजलाभलाभविजयाख्याः प्राज्ञपुण्ड्रा बुधाः । प्रोद्दामप्रतिभाप्रकर्षरचिताधीशोरुकृत्योत्करा
श्चारित्रोज्ज्वलरङ्गरङ्गविजयाः प्राज्ञाः प्रतिज्ञाभृतः ॥७०।। कामं कर्कशतर्कशास्त्रतटिनीप्राणाधिराटपारगा, ।
हेलाहेठितरामरामविजयाह्वाः पण्डिताग्रेसराः । साक्षीकृत्य गुरुं गृहीतविलसन्निश्शेषविद्याभराः,
सौजन्याद्यभिरामविजया आसन्नविद्वत्पदाः ॥७१।। सद्भक्त्युद्गतकीर्तिविजयाश्चामीकराङ्गत्विषः,
कल्याणाचलधीरधीरविजया विस्तारिविद्योद्यमाः । रूपानङ्गसधर्मधर्मविजया नीलोत्पलश्यामलाः,
कम्राभाः कमलादिमाश्च विजयाः सौजन्यवन्यम्बुदाः ॥७२।। इत्याद्यस्य मुनिव्रजस्य च मुनीराशेः प्रसाद्ये क्रमात्,
तत्र प्राप्तपदस्य नत्यनुनती श्रीतातपादैः शिशोः । माणिक्याद्विजया विवेकविजयाः कुंरर्षयोऽत्र स्थिता,
ज्ञेयैषां प्रणतिश्च नत्यनुनती ज्ञाप्ये परेषां क्रमात् ॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org