________________
जान्युआरी - २०१३
गाम्भीर्येण वचोऽतिगेन भवता किं निर्जितो निस्तुषं, .. .
गर्जारावमुखो भवद्गुणनुर्ति निर्माति नीरेश्वरः । वेलालोलतटद्वयाधरपुटो डिण्डीरपिण्डस्फुर
दन्तव्रातमनुष्णरश्मिकिरणस्तोमाभमुद्भावयन् ॥६॥ गाम्भीर्येण गरीयसा तव जितः कल्लोलिनीवल्लभ
श्चेतोऽन्तःप्रकटीभवद्बहुतराक्षान्तिव्यथाव्याकुलः । पञ्चत्वाय गृहीतवानिव निजक्रोडे प्रचण्डोदयं,
... बोहित्थोद्धतकाष्ठवर्द्धितमहस्सन्दोहमौर्वानलम् ॥६॥ पद्माकौस्तुभकौमुदीपतिसुधास्वर्गिद्रुविश्वम्भर
____ स्थानं निर्मलरत्नराजिरुचिरः कूलङ्कषाणां विभुः । मां गम्भीरतया जयेन्मुनिरसौ किं मुक्तमेभिर्गुणै
रप्येवं रुषया समुच्छलति किं सिन्धुस्तरङ्गैः करैः ॥६२।। अस्त्येवाऽभिनवः प्रतापदिविषन्मार्गाध्वगस्तावकः,
कामोत्पादनकर्मठो जलधरानुच्छेद्यमाहात्म्यवान् । स्वर्भाणुग्रसनव्यथाविरहितः सन्तापसंहारकृद्,
राजश्रीप्रथनोद्यतः कुवलयोल्लासक्रियालालसः ॥६३।। श्रीसूरीश! भवत्प्रतापहुतभुगज्वालावलीभिस्तव,
प्रत्यर्थिप्रकरोरुकीर्तिलतिकोद्यानानि दग्धानि यत् । तत् तेषां भसितं न्यवेशि किमु तैरात्मीयवस्तुत्वतो, .
वक्त्रे स्वस्य यदीति नाऽजनि तदा तन्मेचकत्वं कुतः ॥६४॥ दम्भोलिर्भवतः प्रतापपटलीनिर्भसितः किं श्रितः,
स्वर्मध्यं वडवानलः किमुदधेरभ्यन्तरं वाऽविशत् । मध्येमेघपथं पुना रचितवान् वासं किमम्भोजिनी
प्राणेशो बहु भण्यते किमथवा स्थातुं क्षमोऽग्रेऽस्य कः ॥६५॥ एवं सद्गुणवर्गवर्णनविधिप्रह्वप्रबुद्धोत्करैः,
श्रीतातैः स्ववपुष्परिच्छदवपुःस्वास्थ्यप्रवृत्त्यम्बुमान् । . शिष्याम्भोदसुहृन्मुदे चिरमनस्तापव्यपोहक्षमः,
पुण्यः पत्त्रघनः प्रसादगगनोत्पन्नः प्रसाद्यः पृथुः ॥६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org