SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ हस्तेनेव सरोजिनीहृदयराट्स्पर्शस्य वारांनिधे, __ रोधस्येव वशीकृतेरिव बृहद्भानूष्णताया: किल । भूरित्वद्गुणवर्गवर्णनविधेः श्रीसूरिचूडामणे!, सिद्धेवर्त्म मया मनोरथमरः सम्प्रापणीयः कथम् ॥४६॥ बह्रीं त्वगुणधोरणी त्रिपथगाकल्लोलमालोज्ज्वलां, सामस्त्ये[न] नुतिक्रमे प्रणयितुं कः स्यात् प्रभूष्णुः प्रभो! । विद्याशैवलिनीहदीश्वरतरीसंकाशसंविज्जुषः, कुण्ठत्वं कलयन्ति यत्र सुतरां वाचोऽपि वाचस्पतेः ॥४७॥ मूलं श्रीजिनशासनं व्रतविधिः स्कन्धः कलाः पल्लवाः, पत्राण्यागमयुक्तयः परिमलस्फीतिर्यशःसंहतिः । छाया धर्मकथा फलं शिवसुखं भव्याङ्गिनः पक्षिण स्त्वं प्राप्तः फलदोऽपवर्गपदवीपान्थेन पुण्योद्गमात् ॥४८॥ स्वामिस्त्वत्प्रबलप्रतापतपने दम्भोलिसौदामनी पाथोनाथधनञ्जयोच्चयनिभे देदीप्यमानेऽभितः । यत्ते कीर्तिकलापकैरववनं प्रत्यूहपुरोज्झितं, वृद्धिं याति निरन्तरं मनसि तं मन्यामहे विस्मयम् ॥४९।। किं मार्तण्डविभामयोऽयमतुलं नृणां तमो हन्ति यत्, किं पीयूषमयो जरामृतिभयं मथ्नाति यन्मोहकृत् । किं शीतांशुकलामयः कुवलयं यद् बोधयत्यक्षतं, भव्यान्तष्करणेऽजनीति घटना चक्षुःपथाप्ते त्वयि ॥५०॥ कामं काममपाकरोषि हरसे कीर्ति कुवादिव्रजाद्, हिंसां हन्सि निराकरोषि कलुषं क्रोधं नयस्यापदम् । मानं मानविवजितं रचयसे मनासि मायां तथा ऽप्याख्यान्ति प्रतिभाधनाः प्रशमिराट्! त्वां सर्वदोषोज्झितम् ॥५१॥ कामं पूरयसि प्रभो! तनुमतां मायाविलासं सृजन्, प्रोद्दामप्रमदानुषङ्गजननः सक्तः परार्थग्रहे । सेव्यः पुण्यजनैरनीतिसहितः स्वष्टापदध्यानवान्, वैराग्यैकमनास्तथाऽपि भणित: सभ्यः पुनः पण्डितैः ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy