SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ गोसम्पत्तिमनोहरः स्फुटवसुः स्वर्णाद्रिवत् कस्य नो, प्राप्तो लोचनगोचरं प्रथयति प्रीतिप्रकर्ष हृदि ॥२६॥ यल्लोको वरिवर्ति भाग्यभवनं भाग्यात् पुनः सम्पदं, सम्प्राप्नोति समीहितं वितनुते दानं पुनः सम्पदा । दानादर्थिकदम्बकं सुखयति प्राप्नोति तस्माद् यशः, पीयूषांशुविराजि तेन सहसा विश्वं बरीभर्ति च ॥२७॥ यल्लोकः कमनीयतासुरसरित्प्रालेयशैलः कला ___वल्लीकाननमृद्धिसिन्धुजलधिर्विद्यामणीरोहणः । दाक्षिण्योडुवियद् यशोऽम्बुजसरः पुण्यप्रसूनद्रुमः, __ सद्यः सन्तनुते गतोऽक्षिपदवीं सन्तुष्टिपुष्टिं नृणाम् ॥२८॥ रूपत्याजितमन्मथस्मयचयाः प्रोल्लासिदेहातो, भालाभोगपराकृतेन्दुशकलास्तुङ्गा महादोर्युगाः । पुष्टाः शिष्टधियो धराधिपमता: पद्माप्रपूर्णौकसः, स्वैरं यत्र वसन्ति पूरुषभराः कारुण्यपुण्याशयाः ॥२९।। सम्पूर्णामृतरश्मिकल्पवदनाः कन्दर्पकेलीगृहाः, __ प्रोद्बुद्धाम्बुजलोचनाः स्मरवधूधिक्कारिरूपश्रियः । वाक्चातुर्य्यवशीकृतत्रिभुवनाः कामं कटाक्षच्छटा श्रेणीप्रीणितकामिचित्ततरवो राजन्ति यत्र स्त्रियः ॥३०॥ स्फूर्ज़द्दानसुशीलदुस्तपतपःसद्भावनाभिश्चतु र्भेदं धर्ममनन्तशर्मजननं सम्यग् समाराधयन् । कुर्वन् श्रीजिनशासनस्य महिमां विश्वत्रयीविश्रुतां, स्तुत्यो यत्र चकास्ति देवगुरुपत्पाथोजसेवापयो धौतस्वान्तमल: कलासु कुशलः श्राद्धो जनः सज्जनः ॥३१॥* अर्हत्सूरितपोधनादिकगुणग्रामैकगानप्रथा पाथोनाथनिमग्नमानसतिमिर्मन्दाक्षदाक्षिण्यभाक् । शीलालङ्कृतिशालिनी सरलधीः सन्मार्गसंसर्गिणी, . श्राद्धीराजिरुपैति यत्र सुषमामारब्धधर्मादरा ॥३२॥ ★ पञ्चपदी - टि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy