SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ देवानां पथि कज्जलालिशितिरुक्पाथोमुचामालिभिः, संश्लिष्टैक्यमुपागते इव तनू श्रीकण्ठवैकुण्ठयोः ॥ १९ ॥ लोलत्केतुकरैर्यदुच्चभवनश्रेण्यः किलाऽऽकारय न्त्यम्भोदानिव दातुमित्युरुमुपालम्भं वियद्वर्त्मगान् । अस्माकं शिखरस्थिता किमु सुधामालिन्यमानीयते, युष्माभिर्यमुनाञ्जनालिशितिभिः पङ्कोदयोल्लासिभिः ||२०|| यत्राऽनेकसहस्रगोधनजुषां सौधावलीनां श्रियं, कर्तुं नेत्रपथेति मत्सरितया नेशोऽल्पगुर्गोपतिः । पन्थानं परिहाय मङ्क्षु सरलं व्योमन्युदग्दक्षिणा दिग्मार्ग श्रयतीति चेन्न हि तदा वाच्यं निदानं परम् ॥२१॥ उच्चैर्यत्र निकेतनीयनिकरा वेल्लत्पताकाकरैः, सर्वाशास्विव तर्ज्जयन्ति गगनज्योतिर्विमानावलिम् । अस्माकं पुरतः स्थिरत्वमयतां नित्योत्सवानन्दिनां, का राढा वरिवर्त्ति वश्चपलताभाजां दिवाऽस्तद्युताम् ॥२२॥ यत्रत्यामतितुङ्गगेहपटलीमालोक्य लोकैरिदं, चित्तेऽचिन्ति सुतर्ककर्कशतरप्रज्ञाप्रकर्षावहैः । ऋक्षाणां व्रजतां विहायसि निरालम्बे विलम्बं कृते, वाऽऽधारार्थमियं नृभिः प्रपतनभ्रान्त्या चिरं श्रान्तिः ||२३|| यत्तुङ्गालयपेटकस्य पुरतो दीर्घा अपि दुव्रजा, बिभ्राणा लघुतां प्रयान्ति सहसा पन्थानमक्ष्णां नृणाम् । आसन्नत्वमयन्ति यस्य शशभृत्सूर्यग्रहाद्याः पुनः, ६७ शृङ्गे यस्य च शेरते जलमुचो विश्रामलाभेच्छ्या ॥२४॥ यत्राssवासभरा विदोषविभवः केतून् वहन्त्युच्चकै रेवं दर्प्पकदम्बकादिव पुरः केऽस्माकमन्ये गृहाः । भण्यन्ते भुवि दानवारिनिकरप्राप्ताधिपत्या घुस नेहा नागगृहा भुजङ्गपटलीसाम्राज्यभाजः पुनः ||२५|| यद्वेश्मप्रकरः सुवर्णकलितः सन्नन्दनः सङ्कलो, रम्भौघैर्विबुधावलीपरिगतो विभ्राजितो विद्रुमैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy