SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ दद अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ नित्यं श्रीभगवन्निषेवणसमुद्भूतोरुपुण्यप्रथा संश्लेषादिव दर्शितोदयचयाद् वैगुण्यमासादिता ॥१२॥ यत्रोच्चैर्भगवद्विहारनिकरे नित्योत्सवानन्दिनि, प्रोद्यद्भित्तिविभागसञ्जितसुधाऽपूर्वैव विभ्राजते । यस्याः प्रेक्षणनिर्मितेरपि सतां व्राता विशुद्धाशयाः, सद्यो जन्मजरामृतिप्रभृतिजं क्लेशं निराकुर्वते ॥१३।। यत्राऽऽभान्ति जिनालयावलिगताः कुड्यप्रदेशाः सुधा श्रेणीभिर्धवलीकृता जनमनःप्रीतिप्रकर्षप्रदाः । स्वर्भाणुप्रभवं(व)प्रभूतभयतस्त्यक्त्वा धुसत्पद्धति, सूर्याचन्द्रमसव्रजा जिनवराभ्यर्णं प्रपन्ना इव ॥१४॥ यच्चैत्यप्रकरे निशाकरकरश्रेणीसमाना सुधा, नेयं राजति रामणीयकपदं सर्वत्र विस्तार[भाक्] । किन्त्वेषा किल दर्शनाय भविनां प्रादुष्कृता क्ष्मातले, कीर्तिः श्रीजिनपुङ्गवैः सुरगवीक्षीरोज्ज्वला भ्राजते ॥१५॥ यत्रत्यालयराजयो रतिकृतश्चञ्चन्त्यतीवोच्छ्रिताः, संश्लिष्टाः स्तनयित्नुभिः सुगुरुभिः स्वर्वासिनामध्वनि । स्यात् सख्यं हि समानशीलविभवैः क्लृप्तं निदानं श्रिया मेतां रीतिमशेषविश्वविदितां स्पष्टं विधातुं किमु ॥१६॥ यत्राऽऽवासपरम्पराः सुरपथे प्राप्ताः पयोमुग्भरा __नेवं वक्तुमिवाऽऽदरेण कमलाधारत्वतो गर्जतः । मा गजन्तु विसज्जनैकरसिका! दध्मोऽपि विश्वे वयं, विस्तारं कमलोत्करस्य जगतीजन्तूपकारप्रभुम् ॥१७॥ यत्राऽऽवासकदम्बकं जलमुचां मालाभिरुच्चस्तरं, सम्बन्धं विदधाति देवपदवीक्रोडे प्रचण्डोदयम् । अत्यासन्नतया मरुत्पथमणेस्तत्पादतापप्रथा पीडाकाण्डमिव व्यपोहितुमनस्तेजोऽपहारक्षमम् ॥१८॥ यत्रोत्तुङ्गतमालयावलिरलं विभ्राजते शीतरुक्, स्वःसत्कुञ्जरकुन्दकैरवकुलश्वेता सुधालेपतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy