SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ॥ अथ नगरवर्णनम् ॥ यच्चैत्यालयमण्डली कलयति श्रीसञ्चयं सर्वतः, सर्वज्ञैः समुपासिता परिलसत्तेजोव्रजालङ्कृतैः । हाराणां पटलीव पावनतरैरासेविता नायकैः, सद्वृत्तत्वविराजिभिधृतगुणग्राममनोहारिभिः ॥६॥ यत्सर्वज्ञनिशाधिनाथसदनश्रेणी नृणां पद्मिनी प्राणेशद्युतिधोरणीव नयति प्रध्वंसमार्ग तमः । पुण्योद्योतकदम्बकं गमयति स्फाति स्फुरन्ती पुनः, ___प्रीतिप्रापितसच्चकोरनिकरा दोषापहारक्षमा ||७|| यत्रत्या जिनचित्रभानुभवनाः शोभा वहन्तोऽद्भुतां, लक्ष्यन्ते निलयावलीषु सहसा पार्थक्यतः पूरुषैः ।। शैलालीषु कुलाचला इव नरवातेषु भूपा इव, स्वःसद्भूमिरुहा इव क्षितिरुहश्रेणीषु भास्वद्रुचः ॥८।। यज्जैनेश्वरवेश्मभासुरसुधालेपाट्यभित्त्यावली सङ्क्रान्त-द्विजराज-वारिरुहिणीप्राणेश-तारादयः । युष्माकं पुरतो वयं किमपि नो तेजस्वितापात्रतां, यामो वक्तुमितीव देवपदवीमार्गादिहेवाऽऽगताः ॥९॥ यत्र प्रेक्ष्य पदे पदे जिनगृहव्यूहे चकासत्सुधा श्रेणी भित्तिगतामतीवधवल श्रीकां कलङ्कोज्झिताम् । स्वं शोचन् प्रसरत्कलङ्कमलिनं सान्द्रार्तिसंसर्गतः, क्षीणः कैरविणीहृदीश्वर इव व्यालोक्यते व्योमनि ॥१०॥ यच्चैत्यप्रकरे सुधाधवलिता भित्तिप्रथा सर्वतः, सन्त्यक्ताम्बरसङ्गमाऽपि लभते राढां दृढं सर्वदा । तच्चित्रं निजतेजसा जयति यच्छीतद्युतेर्मण्डलं, विस्तीर्णाम्बरलब्धडम्बरभरं कुर्वत् कुवेलोदयम् ॥११॥ यत्र श्रीजिनयामिनीश्वरमहाचैत्यालिचञ्चत्सुधा सन्दोहप्रतिबिम्बिता गृहमणीमाला चिरं राजते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy