________________
६४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
(४) सूर्यपुरस्थ-श्रीविजयसेनसूरि प्रति वैजलपुरात् श्रीविद्याविजयस्य लेख:
- मुनि त्रैलोक्यमण्डनविजय
[शार्दूल०] स्वस्ति श्रीसुखसञ्चयं रचयति स्फारीभवत्संवरो,
यो लोकस्य लताकदम्बकमिवाऽम्भोदः श्रितो विद्युता । प्रास्ताशेषतमोभरः प्रभवतात् पङ्कापहाराय वः,
____ स श्रीमान् कलिकुण्डपार्श्वजिनराड् नाथोऽब्जिनीनामिव ॥१॥ यन्नाम्नो महिमाभरस्य पुरतः शश्वत्प्रवृद्धौजसः,
किं तेजः सरसीजिनीप्रणयिनः शोभा दिवैवैति यत् । आलोकश्शशिनश्च कः श्रयति योऽवश्यं परिक्षीणतां,
नृणां स्वान्तसमीहितं वितनुतां शाखीव स स्वर्गिणाम् ।।२।। काष्ठानामिव चित्रभानुरसुमत्स्तोमस्य तेजःपदं,
क्लेशानां दहनं प्रपञ्चयति य: प्रध्वस्तजाड्योत्करः । लोकैस्तत कलिकुण्ड* इत्यभिधया सान्वर्थया गीयते,
सामोदं तमुपास्महे श्रितखगं पान्था इवाऽनोकहम् ॥३॥ गम्भीरे सुतरां यदीयमहिमाम्भोधौ निमज्जन्ति ये,
ते तिष्ठन्ति सुखं व्यतीतसमया दुःखं तटस्थाः पुनः । अस्माभिः परिपृच्छ्यतेऽद्भुतमिदं दक्षस्य कस्याऽग्रतः,
स स्तात् पूर्णकलोत्करः कुवलयोल्लासीव शीतद्युतिः ॥४॥ सन्तापं सततोदयो वितनुते मिथ्यादृशामेव य
श्छिन्ते मानवहत्तमश्च सृजति प्रीतान् पुनः कौशिकान् । नाऽपूर्वं कथमामनन्ति महिमादित्यं यदीयं बुधाः,
श्रीमन्तं कलिकुण्डपार्श्वजिनपं प्रेम्णा नमस्कृत्य तम् ।।५।। * कुडुङ् दा - - - - - [हे इति व]चनात् - टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org