________________
६३
जान्युआरी - २०१३ मौलिं बिभ्रन्नखमणिमिषादात्मना भूपरूपः,
स्थाने राज्ञा कृतनिजरुचिस्थापनात् सोऽपि राजा ॥१९॥ शङ्के पङ्के पतितमभितः पक्षपातैर्द्विजानां,
कम्पप्राप्तं जडमपि पदं तत्सपत्नाकृतीनाम् । प्रातर्बोधान्नलिनवलयं सौरपाणेः कथञ्चित्,
श्रुत्वौपम्यं विहसतितरामुन्मुखीभूय भूयः ॥२०॥ वासोल्लासप्रकटकपटादुद्गिरन् पोष्यरागं,
___ लक्ष्मीलीलाभवनविभया सूरिराजस्य पाणिः । अम्भोयोनेरपि च लभतां सौरभेणोपमानं,
श्यामाभासा यदिह रमते भृङ्गमालाऽक्षमाला ॥२१॥*
(एतावन्मात्रभेवेदं पत्रम् ।)
* उपमानानि चन्द्रस्य बहूनि सन्ति मत्कृतात् । पार्श्वनाथस्तवात्तानि ज्ञेयानि विदुषां वरैः ॥३०॥ सर्ग-११ बहुधाऽत्रोपमानानि सन्तु जानन्तु तान्यपि । मत्कृतायाः तारकितायाः यामिन्या वर्णकाद् बुधाः ॥७१॥ सर्ग-११ इति टि.
C/o. प्राकृत भारती, 13 A, मेन गुरुनानक पथ, जयपुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org