SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ बोधायैवं किमिति निदधे स्वर्णसावर्ण्यमस्मिन्, धात्राम्भोजे पुनरधृतितस्तद्वराटस्य कूटम् ॥५॥ लेशोद्देशादपि न सदृशं पङ्कजं स्वामिपाणेः, स्पर्धां धत्ते तदपि किमिति प्राप्तकोपाधिरोपः । शङ्के पङ्केरुहवनशिरस्याशु चिक्षेप साक्षात्, धाता पांशुप्रकरमभितस्तद्रजोराजिदम्भात् ॥६॥ चञ्चत्कान्त्या किशलयकुले शोणभावातुलेऽपि, ___ बोधप्राप्त्या कमलवलये शुद्धबुद्धस्वरूपे । लेभे लेखासमुदयमयं स्वामिपाणिर्विवादात्, तेनौपम्यं कलयति कलामात्रतः कोऽतिरम्यम् ॥७॥ प्रातः किञ्चित्तुलयितुमलं निर्मलं नीरजन्म, धत्ते धाष्टय गणधरगुरोः पाणिना सार्द्धमत्र । तावदैवादलिकुलमिषाल्लीयते पातकेन, स्पर्धाबन्धः किमिह महतां क्वाऽपि कस्याऽपि दीप्त्यै ।।८।। मग्नं नीरे भ्रमरललिते नाऽक्षसूत्रे विलग्नं, ___ नग्नं साक्षान्मलिनमसकृज्जातनीहारपातात् । नालीकस्वं नलिनमनिशं स्वामिनः पाणिलक्ष्मी प्राप्तुं किं किं तपति न तपः कष्टमुद्दिष्टयोगात् ॥९॥ तुल्यं नाऽभूच्छतपरिमितैर्वा सहस्रप्रमाणैः, पात्रैनित्यं परिवृतमपि श्रीनिवासेऽम्बुजन्म । यस्य श्रीमत्तपगणभृतः पञ्चशाखस्य पाणेः, तस्यौपम्यं विटपमिलित: पल्लवः किं बिभर्ति ॥१०॥ बाल: पात्रं न भवति मनाक् पञ्चशाखाप्रदीप्तेः, तत्कि भासा भजति तुलनामाख्यया यः प्रवालः । श्रीमत्सूरेः करपरिकरज्योतिषां लज्जयैव, जाने तस्मादुदयसमयेप्येष सङ्कोचमेति ॥११॥ लक्ष्मी मान् वसति चतुरः पङ्कजे पञ्चषान् वा, घस्रांस्तद्वत् किशलयकुले सङ्कले पात्रवृन्दैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy