SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६०. अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १ प्रविदितमहिमाभृत्सर्वपर्वालिमुख्यं, क्रमत इति तिरोऽभूत् पर्वसांवत्सराख्यम् ॥२७॥ विलसति कमलानां काननेषु प्रबोधे, परिमलकमलाऽसौ सौरभासा यथैव । सुकृतसरसलक्ष्मी: सौरभासा तथैवौन्नयनमनुबभूव प्रोद्भवत्सौरभा सा ॥२८॥ श्रीः श्रीशङ्खेश्वर ऐँ नमः । श्रीमान् सूरेर्जयति विजयी लक्षणैः पञ्चशाखश्चञ्चल्लक्ष्मीभरवितरणैर्नन्दितः श्राद्धशाखः । सेव्यः शश्वद्विबुधनिवहैरङ्गवान्पारिजातः, प्रातर्भास्वानिव हततमस्तेजसाऽपारिजातः ॥ १ ॥ किं कल्पद्रोरिव किशलयः प्रादुरासीज्जगत्या -, मत्यादृत्याऽभिनतजनताऽभीष्टसम्पत्तयेऽसौ । शोभां बिभ्रद् गणधरगुरोर्गौरहस्तप्रशस्त्या, नानालेखाश्रयणमिह तद् दृश्यते व्यक्तमेव ||२|| नूनं दूनं भवति विभवे यत्कलाभृत्कलानां, वक्राङ्गानामपि परिचितं वेष्टितं कण्टकै । वासायैतन्मम समुचितं नेति मुक्त्वा पयोजं लीनः पीनच्छविरिह करः पद्मया गच्छभर्तुः ॥३॥ पद्मः क्वाऽयं जडपरिचयी लक्ष्मणाम्प्लि(च्छ्लि? ) ष्टकायः, स्पष्टं पङ्कावकरभरजः कण्टकानां निकायः । क्वाऽयं पाणिस्तपगणगुरोर्नित्यपाण्डित्यकर्त्ता, दूरे पङ्कात् प्रसरति चयः सौकुमार्यं प्रधार्य ॥४॥ नाऽयं न्याय: श्रयति समतां लोकवार्त्ताप्रसङ्गेप्यम्भोजन्मश्रमणनृपतेः पाणिना सार्द्धमेतत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy