________________
जान्युआरी - २०१३
श्रवणमपि च कल्पानल्पसूत्रस्य वृत्त्या,
सह महति महेऽस्मिन् भव्यसोऽभ्यकार्षीत् ॥२०॥ सविनयमपरोषस्तोषमासाद्य सद्यः,
सुविहितदृढरागः स्वागसः क्षामणानि । उपशमसमतायां सम्मतायां चकार,
वचसि मनसि दोषानुज्जिहानो विवेकी ॥२१॥ कलिललितवशेन व्याप्तिमात्रं समन्तात्
विमतमतमतः स्याद् विस्मयो धर्मकार्ये । अहह निरपवादः श्रीमदिष्टप्रसादः,
प्रभवति सति यस्मिन्नाऽत्र कोऽप्यन्तरायः ॥२२॥ कृतयुगयुगलश्रीः किं सहैवाऽभ्युपेता,
परिणमति सचेता यज्जिनार्चादिधर्मे । प्रवहति कलिकाले पापलोकैः कराले,
सुकृतमतिरिहेदृग् जायते यद्विचाले ॥२३॥ धृतवसनविशेषैश्चारुवेषैरशेषै
व्रजति युवतिवर्गश्चैत्यमाश्रित्यवृन्दम् । जिनगुणमभिनीतं सुस्वरेण प्रतीतं,
पथि कथितसुखेनोच्चारयन् चारुगीतम् ॥२४॥ शरदि विहितपापक्षालनं पालनं च,
सकलतनुभृतां द्राग् वृद्धया श्रद्धयाऽभूत् । अवसितपरमार्थः सार्थ एवाऽर्थभाजां
प्रतिगृहमदित श्रीलम्भनां मोदकानाम् ।।२५।। सुमधुरमधुधूलीसम्पुटानां प्रदान
___ मजनि रजनिजन्मन्याब्दिकत्यागकाले । इतरदपि यथार्ह वस्त्ररूप्यादिदानं,
भुवनगुरुगुणौघे गायनैर्गीयमाने ॥२६।। विविधरससमृद्धैः सिद्धपक्वान्नभोज्यैः,
प्रवचनचतुराणां पारणाधारणाभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org