________________
५६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ श्रीमेधविजयवाचकलिखितं विज्ञप्तिपत्रं खण्डितप्रायम्
- महो.विनयसागर ॐ ह्रीं श्रीं क्लीं श्रीशद्धेश्वराय एँ नमः । अथ गगनरमायाचित्रमायानुकारी,
निजकरनिकरेण ध्वान्तधारापहारी । समयरसिकयोगिस्वान्तपद्मप्रचारी,
धृततनुरिव बोधः सूर्य आसीत्प्रकाशी ॥१॥ गगनसरसि फुल्लत्तारतारोत्पलानां,
निचयमुचितचैत्याभ्यर्चनायोदयाद्रौ । सपदि समुपचिन्वन्नंशुमाली समागा
दरुणवसनशाली ध्वस्तमोहान्धकारः ॥२॥ दिशि दिशि निशि माद्यत्कामसैन्यस्य पांशु
स्तिमिरनिकरदम्भात् प्रासरत्तं विधूय । द्विजपतिपरिणामोद्भूतदोषातिशोषात्,
___जगत इव विदासीत् केवलं शूरलक्ष्म्या ||३|| उदयविकटगोत्रे विस्तृतं चाऽप्रदोषात्,
कपटपटमलीनं ध्वान्तमाशु प्रलीनम् । भुवनगुरुनियोगाद् रागिणोप्युष्णरश्मे
र्घनरुचिचरणानामुद्धृतायां क्रियायाम् ।।४।। विकसति कमलानां कानने तुङ्गपूर्वा
गिरिशिरसि सरस्यां पूर्वदिग्नाथदन्ती । विकसितशतपत्रं व्योम्नि चिक्षेप भानो
श्छलत इति विनेशुधिष्ण्यपारापतास्ते ॥५॥ वियति मदनबाणास्तारतारावतारात्,
क्षितिवलयमपीयुः सर्वतो दीपमूर्त्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org