________________
जान्युआरी - २०१३
४७
सङ्घार्णवः समधिगम्य सुपर्ववेलां,
__ सर्वज्ञशीतकिरणोदयदर्शनेन । उद्भूय वर्षति महोत्कलिकारसेना
ऽगण्यैर्हिरण्यनिवहैस्तु वनीपकेषु ॥३०॥ सेयं प्रभामधिगता विभवोद्भावेन,
धर्मोदयेन मधुरा स महोदयश्रीः । ब्रह्मस्थितेरथ कुशस्थलमाश्रयन्ती,
तीर्थैः परं शिवपुरी महसा त्वयोध्या ॥३१॥ नानापुरीमयतया पुरुषोत्तमेन,
श्रीशम्भुनाऽतिविदिता भुवि नाभिजेन । या राममन्दिरमनोहरपार्श्वमध्या,
तस्याः पुरः प्रथितनामभृदुज्जयिन्याः ॥३२।।
प्रादुर्भवत्पुलककञ्चकिताङ्गदेशः,
संयोजिताञ्जलिपयोरुहसन्निवेशः । सर्वाङ्गसाङ्गविनयस्थितिनर्मशाली,
चेतोगृहेऽभ्युदितसद्गुरुभानुमाली ॥१॥ भालस्थलेन परिमीलितभूतलत्वात्,
पञ्चाङ्गवन्दनविधानकृतावधानः । ध्यानेन चिन्तितजगद्गुरुसन्निधानः,
स्पष्टीकृताद्भुतनिजाशयसन्निधानः ॥२॥ पञ्चेन्द्रियप्रमदसम्पदमादधानं,
पश्यन्निवाऽऽन्तरदृशा पुरतः प्रधानम् । श्रीमद्गुरुं सुरतरुं सहसाभिधानं,
तस्य स्मरन्निव धृतातिकृपोपधानम् ॥३॥ शिष्यो भुजिष्यरुचिनम्रतनुर्विशिष्य,
___नाम्नाऽथ मेघविजयः किल तन्तनीति । विज्ञप्तिवल्लिवनपल्लवनं रसेन,
लेखात् वियोजनविपल्लवनं विधाय ॥४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org