SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४६ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ येषां मनः प्रवचने सुतरां निलीनं, तेनैव दुर्मततमः सहसा विलीनम् । न ध्यानमाविशति रौद्रमतो मलीनं, तेषां कदाऽपि भविनामिह साम्प्रतीनम् ॥२३।। ज्ञानक्रियापरिणतात्मतयाङ्गभाजां, ___ व्याजाङ्करः स्फुरति नैव कदाऽपि चित्ते । श्रीमद्गुरोर्गुणकथाधिकवर्णनेषु, ___ व्यापारितश्रुतितया विनयाश्रयाणाम् ॥२४॥ ये लक्ष्मणा अपि भवन्ति विशिष्य रामाः कामानुरूपवपुषोऽपि विमुक्तकामाः । नूनं विचारचतुरा अपि नैव चाराः, हारावसक्ततनवोऽपि लसद्विहाराः ॥२५।। कर्णं जयन्ति विषमेषुविसर्जनेन, बीभत्सतां दधति ते न कदाऽपि भव्याः । जैवातृका अपि कलास्सकला वितत्य, दोषाकरत्वमिह बिभ्रति नांऽशतोऽपि ॥२६।। सन्मार्गतत्त्वपरिभावनया नयानां, सम्यग्विवेचनधुरा मधुराः स्वचित्ते । श्राद्धाः प्रशान्तरसमेव हि नाटयन्ति, सामायिकादिविधिषु त्रिविधात्मशुद्ध्या ॥२७|| पादैश्चतुर्भिरिह भव्यमनस्सुधर्मः, स्थैर्य बिभर्ति विहितोत्तमकार्यधैर्यम् । तस्मात् कलिनिरवकाशतया चकास, मासाभिवासमधिगत्य कलिद्रुमेषु ॥२८॥ आशिश्रियुर्यवनलोकमुखानि कूर्च व्याजेन जैनजनताभिरिहोन्नताभिः । स्वेष्टप्रकृष्टधनदानविसृष्टतो यै रुत्सारिताः सलिलशूकलता समन्तात् ॥२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy