________________
जान्युआरी - २०१३ विद्युल्लतेव वपुषा धृतगौरकान्तिः,
प्रोच्चैःपयोधरतया रसनिम्नगेव । दानेन चोन्नमितहस्ततया गजानां,
स्पष्टं घटा विजयते पुरि यत्र नारी ॥१६॥ यस्यां पुरन्दरवधूपमिताः पुरन्ध्यः,
___ तारस्वरेण परपुष्टवर्धू विजित्य । निन्युर्वनं विलपितत्रपयाऽसिताङ्गी,
प्राप्तां ततोऽपि सहकारतरोर्हकारम् ॥१७॥ कल्पद्रुमाः किल वदान्यकलाविलासं,
यस्यां वधूजनकरव्यपदेशभाजः । पुष्णन्ति भूतलमुपेत्य कृतार्थितार्थि
सार्था विमार्गणतया त्रिदिवे गतार्थाः ॥१८॥ दत्ते पयोधरचतुष्टयवर्षणेन,
__यावद्रसं सुरगवी गतवत्सयोगा । यस्यां पयोधरयुगेन ततोऽतिशायिं,
पुष्णन्ति पुंसवनम युगे मृगाक्ष्यः ॥१९॥ सत्साधुपात्रपरिपूरणवत्सलानां,
तीर्थेशभक्तिकरणे विलसत्कलानाम् । गीतश्रुतेरिव सदा वणिजाबलाना
____ मन्तश्चमत्कृततयाऽनिमिषा यथार्थाः ॥२०॥ श्रद्धालवोऽपि पुरि यत्र वसन्ति सन्तः,
सर्वाङ्गिनामुपकृतविधयोल्लसन्तः ।। श्रीजैनधर्मपरिकर्मणि बद्धकक्षाः,
शास्त्रावमर्शनसुदर्शनभावदक्षाः ॥२१॥ हंसा इवाऽमलतरोभयवंशपक्षाः,
दुर्वादिपर्षदि विनिश्चितजैनपक्षाः । दानोत्सवप्रमुदितप्रसरत्सपक्षाः,
स्फूर्जयशोभिरभितः सततं वलक्षाः ॥२२॥ युग्मम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org