________________
जान्युआरी - २०१३
यस्यां मणीमयजिनालयभित्तिदेशे,
संक्रान्तिमेत्य बहुविस्मितसुस्मितास्याः । उत्तम्मिता रतिवशाद् भ्रममादिशन्ति,
पाञ्चालिका इव परस्परबालिकानाम् ॥२॥ तीर्थेशबिम्बमविलम्बतयाऽऽर्तयन्तः,
सन्तो दिवा कुसुमवृष्टिमलं सृजन्ति । रात्रावुदित्वरपरच्छवितारकाणां,
संक्रान्तिक्रान्तिरिह तत्तुलनां तनोति ॥३॥ चैत्यावनीशशिमणिद्रुतविद्रुताम्भः,
संप्लावनेन भुवि पावनकर्म कृत्वा । प्रातर्नभोमणिमणिस्फुटरूपवला,
वह्नाय धूपघटिकाविधिमादधाति ॥४॥ भास्वन्मणीमयजिनप्रतिबिम्बराजि
स्नात्राम्भसा प्लुततनुर्द्विविधोऽपि पङ्कः । विश्रान्तिमाप हृदि पापकढुण्ढिकानां,
__ तेनोच्छ्वसन्ति न मनागपि साम्प्रतं ते ॥५॥ व्याख्याक्षणे नवनवक्षणवीक्षणेन,
मार्गापमार्गविधियत्नपरीक्षणेन । श्रीजैनधर्मतरणेस्तरुणोदयेन,
मूकाः कृतास्तदिह दुण्ढिकलोकघूकाः ॥६॥ श्रीमन्मुनीन्द्रवरशासनभासनेन,
दुष्कर्ममर्मरजसां परिनाशनेन । गान्धर्वगीतरतिवादिततूर्यनादै
नित्यप्रभातमिव यत्र गुरोः प्रसादैः ॥७॥ यत्रोपनिःक्रमणपण्यनिकायराजी,
राजीविनीवनविराजिसरस्वती च । नारीगतागतकृतै रससंप्रयोगै
रस्या पुरः प्रमदसम्पदमेव दत्ते ||८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org