SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४२ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ सुचरितफलान्याप्तुं रात्रिन्दिवाङ्गणनायकै दिशमणिमन्वास्ते रागाज्जनोऽञ्जनवर्जितः । विविधविनयैर्जीवाजीवादितत्त्वविमर्शनैः, प्रवचनपरिज्ञाता मोहं विजित्य शनैः शनैः ॥२६॥ तपगणगुरोः सूत्रव्याख्याश्रुतेः श्रुतिपावनं, विदधति दृशोः साफल्यं तन्निरीक्षणकौतुकात् । जिनमतदृढश्रद्धायोगान्मनोमलशोधनं, धनवितरणैर्वंशौन्नत्यं भृशं सुदृशो जनाः ॥२७॥ जिनवरमते ये कौशल्यं सदा हृदि बिभ्रति, त्रिविधमचिरात् कौशल्यं द्राग् विमुच्य विदूरतः । वितरणविधि कौलीनं तेऽनुशील्य महाजनाः, विजहति रयात् कौलीनं तत् पुरे कृपणार्जितम् ॥२८॥ कलयति कलां यस्यां द्वेधा स वै श्रमणादृतां, श्रुतगुरुवचः सङ्घः सर्वः प्रदानतपः स्थितौ । भवति समये प्राप्ते यो वैभवादरमोहितः, स खलु सहसा दुर्गत्यां वैभवादरमोहितः ॥२९|| प्रकृतिसुकृतोल्लासीदासीकृतत्रिदशद्रुमः, प्रसृमरयशःस्थित्या नित्यावदातजगत्त्रयः । मनसि रसिकस्तत्त्वाऽतत्त्वावमर्शनिदर्शने, जयति यतिनां रागाद् यस्यां जनो भजनोद्यतः ॥३०॥ नयपरिचयादस्यावश्याऽभवन्ननु मेदिनी, . सुभुजमनुजाऽऽकीर्णाऽजीर्णालयाद्यनुमोदिनी । गणगुरुपदैस्तस्यामस्यामलत्विषि मेदिनी पुरमिदमिति ख्याताख्यायां पुरि प्रचुरत्रियाम् ॥३१॥ यस्यामनेकसविवेकमहेभ्यलोक निर्मापितार्हतमहाभवनानि नूनम् । उच्चैः प्रसृत्वरसुधाकरसङ्करण, व्याधामधारि वरधाम हसन्ति कामम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy