________________
जान्युआरी - २०१३
धनवितरणैर्येषां रेखा पयोधरदैवत
द्रुमसुरगवी चिन्तारत्नाह्वयेषु पुरस्सरा । मतिरतिशयादर्हद्भक्तौ प्रसक्तिमुपागता
नयविमृशनैस्तेषामग्रे जडा हि तथा गताः ॥१९॥ कृतयुगदृढोत्साहाद् वाहा युगे करयामले,
विमलकमलाभोगः श्रेयोगतिवृषमानुगा । हृदि परिचिताः शुद्धा मुक्ता नृणां शुचिमानसं,
कलियुगकलाभूमी यस्यां मनागपि नाऽस्पृशत् ॥२०॥ उषसि विहितं श्राद्धैर्यस्यां विसर्जननैपुणं,
गुणमनुगुणं चक्रे कर्णोत्तमर्णनृपस्य तत् । अहमहमिकावृत्त्यारब्धे पुनर्भुवि वार्षिके,
धनवितरणे तैरभ्यस्ता कलाम्बुमुचः किमु ॥२१॥ क्षितिपतिमतिक्रम्य श्राद्धाः क्रमाज्जनमेजयं,
वितरणकृतो यस्यां यामान् यथेष्टमथाष्ट ते । ऋतुषु सकलेष्वेतद्वृत्त्या जगज्जनरञ्जना
ज्जलधरवरादप्याधिक्यं दधुर्मधुरश्रियः ॥२२॥ त्रिदशतरवः स्वर्णक्ष्माभृच्छिर:समधिष्ठिता,
बलिरपि नृणां पातापाताद् रसातलमाविशत् । सुरसुरभिरप्याधाद् वक्त्रे तृणानि निरीक्षिते,
वरवितरणे श्रद्धालूनां सुसज्जितलज्जया ॥२३।। सकलकलयाऽतन्द्रश्चन्द्रः क्षितावमृतद्रवं,
किरति विहितालोकं लोकम्पृणैर्बहुभिः करैः । भवति न तथाप्याशा पूर्णा यथा द्रविणार्थिनां
पुरनिवसतः श्राद्धस्याऽस्यां करादमृतद्रुतेः ॥२४|| जलवितरणं लोके ख्यातं ललज्जलदायिनां
गिरिशसुहृदस्तद्वद्रव्यप्रदाननिदानकम् । तदुभयसमुत्सर्गाद् यस्यां जना जिनरागिणः,
सुरपतिसदःश्लाघ्यां कीर्तिप्रथां पृथुमिग्रति ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org